पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

राजा---देवि, तस्याः सामाजिका भवामः । देवी--(स्वगतम् । ) अहो अविनय आर्यपुत्रस्य । (सर्वे उत्तिष्ठन्ति ।) विदूषकः-(अपवार्य । ) भोः,धीरं गच्छामः । तत्रभवती धारिणी वादयिष्यति । राजा- धैर्यावलम्बिनमपि त्वरयति मां मुरजवाद्यरागोऽयम् । अवतरतः सिद्धिपथं शब्दः स्वमनोरथस्यव ॥ २२ ॥ ( इति निष्क्रान्ताः सर्वे ।) ---मालविकाग्निमित्रे प्रथमोऽङ्कः । meeting arranged before King Agnimitra ostensibly to test the skill of the rival musician, but really to obtain the sight of Malvika who was closely watched by the Queen. तत: प्रविशति संगीतरचनायामासनस्थो राजा सवयस्यो धारिणी परिव्राजिका विभवतश्च परिवारः ।) राजा--भगवति, अत्रभवतोराचार्ययोः प्रथमं कतरस्योपदेशं मः । परिव्राजिका--ननु समानेऽपि ज्ञानवृद्धभावे वयोवृद्धत्वाद्गण-

पुरस्कारमर्हति ।

राजा--मौद्गल्य, एवमत्रभवतोरावेद्य नियोगमशून्यं कुरु ।। कञ्चुकी-यदाज्ञापयति देवः । (इति निष्क्रान्तः।)