पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 154 ) .. • अतिमात्रभासुरत्वं पुष्यति भानोः परिग्रहादनलः । अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः ॥ १३ ॥ विदूषकः-अयि, उपस्थिता देवी पीठमर्दिका पण्डितकौशिकी पुंरस्कृत्य धारिणी। राजा-पश्याम्येनाम् । यैषा मङ्गलालंकृता भाति कौशिक्या यतिवेषया । त्रयी विग्रहवत्येव सममध्यात्मविद्यया ॥ १४ ॥ परिव्राजिका-(उपेत्य ।) विजयतां देवः । राजा-भगवति, अभिवादये । परिव्राजिका- महासारप्रसवयोः सदृशक्षमयोर्द्वयोः । धारिणीभूतधारिण्योर्भव भर्ता शरच्छतम् ॥ १५ ॥ धारिणी-जयत्वार्यपुत्रः । राजा-स्वागतं देव्यै । ( परिव्राजिकां विलोक्य।) भगवति, क्रियतामासनपरिग्रहः । (सर्व उपविशन्ति ।) राजा-भगवति, अत्रभवतोर्हरदत्तगणदासयोः परस्परं विज्ञानसंघर्षिणोर्भगवत्या प्राश्निकपदमध्यासितव्यम् । परिव्राजिका—( सस्मितम् ) अलमुपालम्भेन । पत्तने सति ग्रामे रत्नपरीक्षा। राजा--नैतदेवम् । पण्डितकौशिकी खलु भगवती । पक्षपातिचाहं देवी च ।