पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 143 ) इति च भवतो जायास्नेहात्पृथस्थितिभीरुता मयि च विधुरे भावः कान्ताप्रवृत्तिपराङ्मुखः ॥ ३९ ॥ ( उपविश्य ) सर्वथा मदीयानां भाग्यविपर्ययाणामयं प्रभावः यावदन्य- मवकाशमवगाहिष्ये । (द्विपदिकया परिक्रम्यावलोक्य च । ) अये, इदं रुणद्धि मां पद्ममन्तःक्वणितषट्पदम् । मया दृष्टाधरं तस्याः ससीत्कारमिवाननन् ॥ ४० ॥ इतोगतम्यानुशयो मा भूदित्यस्मिन्नपि कमलसेविनि भ्रमरे प्रणयित्वं करिष्ये। मधुकर मदिराक्ष्याः शंस तस्याः प्रवृत्ति घरतनुरथवासौ नैव दृष्टा त्वया मे । यदि सुरभिमवाप्स्यस्तन्मुखोच्छ्वासगन्धं तव रतिरभविष्यत्पुण्डरीके किमस्मिन् ॥ ४२ ॥ ( इति द्विपदिकया परिक्रम्यावलोक्य च । ) अये, करिणीसहायो नागाधिराजो नीपस्कन्धनिषण्णहस्तस्तिष्ठति । यावदेनं गच्छामि । ( कुलिका ।) करिणीविरहसंतापितः । (मन्दघटी।) कानने गन्धोद्धतमधुकरः ॥ ४३ ॥ ( अतोऽन्तरे विलोक्य । ) अथवा न तावदयमुपसर्पणकालः । अयमचिरोद्गतपल्लवमुपनीतं प्रियतमाग्रहस्तेन । अभिलेढु तावदासवसुराभिरसं शल्लकीभङ्गम् ॥ ४४ ॥ (स्थानकेनावलोक्य । ) अये, कृतान्हिकः संवृत्तः । भवतु । समीपमस्य गत्वा पृच्छामि ।