पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 135 ) 5 King Pururavas struck at the sudden disappearance of Urvashi falls into a temporary fit of insanity and wanders in the wilderness in search of his beloved; he makes inquiries about her whereabouts from birds, clouds, trees etc. (ततः प्रविशत्याकाशबद्धलक्ष्यः सोन्मादो राजा ।). राजा--( सक्रोधम् ) आः दुरात्मन् रक्षः, तिष्ठ तिष्ठ । क्व मे प्रियतमामादाय गच्छसि ? ( विलोक्य ) हन्त, शैलशिखराद्गगनमुत्पत्य बाणैर्मामभिवर्षति । (लोष्टं गृहीत्वा हन्तुं धावन् । अनन्तरे द्विपदिकया दिशोऽवलोक्य ।) हृदयाहितप्रियादुःखसरोवरे धुतपक्षः । बाष्पावल्गितनयनस्ताम्यति हंसयुवा ॥ ६ ॥ (विभाव्य सकरुणम् ) कथम् ? नवजलधरः संनद्धोऽयं न दृप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न नाम शरासनम् । अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत्प्रिया मम नोर्वशी ॥ ७ ॥ ( इति मूर्ञ्छितः पतति । पुनर्द्विपदिकयोत्थाय निःश्वस्य ) मया ज्ञातं मृगलोचनां निशाचरः कोऽपि हरति । यावन्नु नवतडिच्छयामलो धाराधरो वर्षति ॥ ८॥ । इति सकरुणं विचिन्त्य ) क्व नु खलु रम्भोरूर्गता स्यात् ? तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः ।