पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 130 ) Urvashi descends from heaven to openly declare her love for King Vikrama who was already lovesmitten, and was pining for her separation. विदूषकः-भोः, चिन्तितो मया दुर्लभप्रणयिजनस्य समानमोपायः । (राजा तूष्णीमास्ते) उर्वशी-- का पुनर्धन्या स्त्री या अनेन परिमृग्यमाणात्मानं विनोदयति ? चित्रलेखा-ध्यानाय किं विलम्बते ? उर्वशी-सखि, बिभेमि सहसा प्रभावतो विज्ञातुम् । विदूषकः-भोः, ननु भणामि चिन्तितो मया दुर्लभप्रणयिजन--- समागमोपायः । राजा-वयस्य, कथ्यताम् । विदूषकः--स्वप्नसमागमकारिणी निद्रां सेवतां भवान् । अथवा तत्रभवत्या उर्वश्याः प्रतिकृतिं चित्रफलकेऽभिलिख्यालोकयन्नात्मानं विनोदय । उर्वशी—(सहर्षम् ) हीनसत्त्व हृदय, समाश्वसिहि । राजा--तदुभयमप्यनुपपन्नम् । हृदयमिषुभिः कामस्यान्तःसशल्यमिदं सदा कथमुपलभे निद्रां स्वप्ने समागमकारिणीम् । न च सुवदनामालेख्येऽपि प्रियामसमाष्य तां मम नयनयोरुद्बाष्पत्वं सखे न भविष्यति ॥ १० ॥ चित्रलेखा-सखि, श्रुतं त्वया वचनम् ?