पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 125 )

राजा-( शकुन्तलायाः पादयोः प्रणिपत्य ।) सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते किमपि मनसः संमोहो मे तदा बलवानभूत् । प्रबलतमसामेवंप्रायाः शुभेषु हि प्रवृत्तयः स्रजमपि शिरस्यन्धः क्षिप्तां. धुनोत्यहिशङ्कया ॥ २४ ॥ शकुन्तला-उत्तिष्ठत्वार्यपुत्रः । नूनं मे सुचरितप्रतिबन्धकं पुराकृतं तेषु दिवसेषु परिणाममुखमासीत् , येन सानुक्रोशोऽप्यार्यपुत्रो मयि विरसः संवृत्तः । (राजोत्तिष्ठति) शकुन्तला—अथ कथमार्यपुत्रेण स्मृतो दुःखभाग्ययं जनः ? राजा-उद्धृतविषादशल्यः कथयिष्यामि । मोहान्मया सुतनु पूर्वमुपक्षितस्ते यो बाष्पबिन्दुरधरं परिबाधमानः । तं तावदाकुटिलपक्ष्मविलग्नमद्य बाष्पं प्रमृज्य विगतानुशयो भवेयम् ॥ २५ ॥ (इति यथोक्तमनुतिष्ठति।) शकुन्तला- ( नाममुद्रां दृष्ट्वा ) आर्यपुत्र, इदं तेऽङ्गुलीयकम् । राजा-अस्मादङ्गुलीयोपलम्भात्खलु मया स्मृतिरुपलब्धा । शकुन्तला-विषमं कृतमनेन यत्तदार्यपुत्रस्य प्रत्ययकाले दुर्लभमासीत् । राजा-तेन हि ऋतुसमवायचिह्न प्रतिपद्यतां लता कुसुमम् । शकुन्तला--नास्य विश्वसिमि । आर्यपुत्र एवैतद्धारयतुं । (ततः प्रविशति मातलिः ।).