पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- - ( 123 )

राजा–अलमलमावेगेन । नन्विदमस्य सिंहशावविमर्दात्परिभ्रष्टम् । ( इत्यादातुमिच्छति।) उभे—मा खल्विदमालम्ब्य । कथं गृहीतमनेन ! राजा--किमर्थं प्रतिषिद्धाः स्मः ? प्रथमा-शृणोतु महाराजः । एषापराजिता नामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता । एतां किल मातापितरा- वात्मानं च वर्जयित्वापरो भूमिपतितां न गृह्णाति । राजा-अथ गृह्णाति ? प्रथमा–ततस्तं सर्पो भूत्वा दशति । राजा--भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया ? उभे-अनेकशः । राजा—( सहर्षम्, आत्मगतम् ) कथमिव संपूर्णमपि मे मनोरथं नाभिनन्दामि ? (इति बाल परिष्वजते।) द्वितीया-सुव्रते, एहि । इमं वृत्तान्तं नियमव्यापृतायै शकुन्तलायै निवेदयावः । ( इति निष्क्रान्ते।) बाल:--मुञ्च माम् । यावन्मातुः सकाशं गमिष्यामि । राजा-पुत्रक, मया सहैव मातरमभिनन्दिष्यसि । बाल:-मम खलु तातो दुष्यन्तः, न त्वम् । राजा-( सस्मितम् ) एष विवाद एव प्रत्याययति । ( ततः प्रविशत्येकवेणीधरा शकुन्तला ।) शकुन्तला-विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न म आशासीदात्मनो भागधेयेषु । अथवा यथा सानुमत्या- ख्यातं तथा संभाव्यत एतत् । -मम खलु