(114) एकैकमत्र दिवसे दिवसे मदीयं नामाक्षरं गणय गच्छति यावदन्तम् । तावत्प्रिये मदवरोधगृहप्रवेशं नेता जनस्तव समीपमुपैष्यतीति ॥ १२ ॥ तच्च दारुणात्मना मया मोहान्नानुष्ठितम् । सानुमती-रमणीयः खल्ववधिर्विधिना विसंवादितः । विदूषकः-कथं धीवरकल्पितस्य रोहितमत्स्यस्योदराभ्यन्तर आसीत् ? राजा-शचीतीर्थं वन्दमानायाः सख्यास्तेः हस्ताद्गङ्गास्रोतसि परिभ्रष्टम् । विदूषकः--युज्यते । सानुमती-अत एव तपस्विन्याः शकुन्तलाया अधर्मभीरोरस्य राजर्षेः परिणये संदेह आसीत् । अथवेदृशोऽनुरागोऽभिज्ञानमपेक्षते. कथमिवैतत् ? राजा-उपालप्स्ये तावदिढमङ्गुलीयकम् । विदूषकः-(आत्मगतम् ) गृहीतोऽनेन पन्था उन्मत्तानाम् । राजा- कथं नु तं बन्धुरकोमलाङ्गुलिं करं विहायासि निमग्नमम्भसि । अथवा- अचेतनं नाम गुणं न लक्षये- न्मयैव कस्मादवधीरिता प्रिया ॥ १३ ॥ विदूषकः-(आत्मगतम् ) कथं बुभुक्षया खादितव्योऽस्मि ।।
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३६०
दिखावट