पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 111 ) राजा--(सस्मितम् ) भवतु । दृष्टं ब्रह्मवर्चसम् । सखे, कोपविष्टः प्रियायाः किंचिदनुकारिणीषु लतासु दृष्टिं विलोभयामि ? विदूषकः-नन्वासन्नपरिचारिका चतुरिका भवता संदिष्टा । माधवीमण्डप इमां वेलामतिवाहयिष्ये । तत्र मे चित्रफलकगतां स्वहस्तलिखितां तत्रभवत्याः शकुन्तलायाः प्रतिकृतिमानयेति । राजा-ईदृशं हृदयविनोदनस्थानम् । तत्तमेव मार्गमादेशय ! विदूषकः—इत इतो भवान् । (उभौ परिकामतः । सानुमत्यनुगच्छति।) विदूषकः-एष मणिशिलापट्टकसनाथो माधवीमण्डप उपहाररमणीयतया. निःसंशयं स्वागतेनेव नौ प्रतीच्छति । तत्प्रविश्य निषीदतु भवान् । (उभौ प्रवेशं कृत्वोपविष्टौ ।) सानुमती-लतासंश्रिता द्रक्ष्यामि तावत्सख्याः प्रतिकृतिम् । ततोऽस्या भर्तुबहुमुखमनुरागं निवेदयिष्यामि । (इति तथा कृत्वा स्थिता।) राजा-सखे, सर्वमिदानीं स्मरामि शकुन्तलायाः प्रथमवृत्तान्तम् । कथितवानस्मि भवते च । स भवान्प्रत्यादेशवेलायां मत्समीपगतो नासीत् । पूर्वमपि न त्वया कदाचित्संकीर्तितं तत्रभवत्या नाम । क्वचिदहमिव विस्मृतवानसि त्वम् ? विदूषकः—न विस्मरामि । किंतु सर्व कथयित्वावसाने पुनस्त्वया परिहासविजल्प एष न भूतार्थ इत्याख्यातम् । मयापि मृत्पिण्डबुद्धिना तथैव गृहीतम् । अथवा भवितव्यता खलु बलवती । सानुमती- -एवमेवैतत् ।