सामग्री पर जाएँ

पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(105) (प्रकाशम् ) भद्रे, प्रथितं दुष्यन्तस्य चरितम् । तथापीदं न लक्षये । शकुन्तला--सुष्टु तावत्र स्वच्छन्दचारिणी कृतास्मि, याहमस्य पुरुवंशप्रत्ययेन मुखमधोर्हृदयस्थितविषस्य हस्ताभ्याशमुपगता । (इति पटान्तेन मुखमावृत्य रोदिती ।) शार्ङ्गरवः-इत्थमात्मकृतं प्रतिहतं चापलं दहति । अतः परीक्ष्य कर्तव्यं विशेषात्संगतं रहः । अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ॥ २४ ॥ राजा-अयि भोः, किमत्रभवतीप्रत्ययादेवास्मान्संवृतदोषाक्षरैः क्षिणुथ ? शार्ङ्गरवः-(सासूयम् ) श्रुतं भवद्भिरधरोत्तरम् । आ जन्मनः शाठ्यमशिक्षितो य- स्तस्याप्रमाणं वचनं जनस्य । परातिसंधानमधीयते यै- र्विद्यैति ते सन्तु किलाप्तवाचः ॥ २५ ॥ राजा-भोः सत्यवादिन् , अभ्युपगतं तावदस्माभिरेवम् । किं पुनरिमामतिसंधाय लभ्यते ? शार्ङ्गरवः--विनिपातः । राजा-विनिपातः पौरवैः प्रार्थ्यत इति न श्रद्धेयम् । शारद्वतः-शार्ङ्गरव, किमुत्तरोत्तरेण ? अनुष्ठितो गुरोः संदेशः। प्रतिनिवर्तामहे वयम् । (राजानं प्रति ) राजन्, तदेषा भवतः कान्ता त्यन वैनां गृहाण वा। उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ॥ २६ ॥ गौतमि, गच्छाग्रतः ।