पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 100 ) ? Repudiation of Shakuntala by Dushyanta as hi wife. (This total forgetfulness and denial on the part of the King Dushyanta is due to the curse given by sage Durvasas owing to the cold reception he received at the hands of Shakuntala when he visited the hermitage of Kashyapa during his absence. ) राजा-अपि निर्विघ्नतपसो मुनयः ? ऋषयः- कुतो धर्मक्रियाविनः सतां रक्षितरि त्वयि । तमस्तपति घर्मांशौ कथमाविर्भविष्यति ॥ १४ ॥ राजा-अर्थवान्खलु मे राजशब्दः । अथ भगवांल्लोकानुग्रहाय कुशली काश्यपः ? शार्ङ्गरवः-स्वाधीनकुशलाः सिद्धिमन्तः । स भवन्तमनामयप्रश्न- पूर्वकमिदमाह । राजा-किमाज्ञापयति भगवान् । शार्ङ्गरवः—यन्मिथःसमयादिमां मयां दुहितरं भवानुपायंस्त जन्मया प्रीतिमता युवयोरनुज्ञातम् । कुतः ? त्वमर्हतां प्राग्रसरः स्मृतोऽसि नः शकुन्तला मूर्तिमती च सत्क्रिया । समानयंस्तुल्यगुणं वधूवरं चिरस्य वाच्यं न गतः प्रजापतिः ॥ १५ ॥ तदिदानीमापन्नसत्त्वा प्रतिगृह्यतां सहधर्मचरणायेति । .