। ( 98.) शकुन्तला–तात. इत एव किं प्रियंवदामिश्रे सख्यौ निवांतपष्येते । काश्यपः--वत्से, इमे अपि प्रदेये । न युक्तमनयोस्तत्र गन्तुम् । त्वया सह गौतली यास्यति । शकुन्तला- पितरमाश्लिष्य ) कथामिदानीं तातस्याङ्कात्परिभ्रष्टा मलयतरून्यूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्ये ? काश्यपः-उत्से, किमेवं कातरासि ? अभिजनवतो भर्तुः श्लाव्ये स्थिता गृहिणीपदे विभवगुरुभिः कृत्यस्तस्य प्रतिक्षणमाकुला । तनयमचिरात्याचीवार्कं प्रसूय च पावनं मम विरहजां न त्वं वत्से शुचं गणयिष्यसि ॥ १८ ॥ (शकुन्तला पितुः पादयोः पतति ।) काश्यपः -यदिच्छामि ते तदस्तु । शकुन्तला-( सख्याबुपेत्य ) हला, द्वे अपि मां सममेक परिष्वजेथाम् । सख्यौ--( तथा कृत्वा ) सखि, यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत्ततस्तम्माथिदमात्मनामधेयाङ्कितमङ्गुलीयकं दर्शय । शकुन्तला--अनेन संदेहेन वामाकम्पितास्मि । सख्यौ--मा भैषीः । अतिस्नेहः पापशङ्की । शार्ङ्गरवः-गुगान्तरमारूढः सविता । त्वरतामत्रभवती । शकुन्तला- (आश्रमाभिमुखी स्थित्वा) तात, कदा न भूयस्तपोवनं प्रेक्षिष्ये! काश्यपः-श्रूयताम्-- भूत्वा चिराय चतुरन्तमहीसपत्नी दौष्यन्तिमप्रतिरथं तनयं निवेश्य । .
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३४४
दिखावट