पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(94) ( सर्वे परिकामन्ति ।) काश्यपः--भो भोः संनिहितदेवतास्तपोवनतरवः, पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् । आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥ ८ ॥ (कोकिलरवं सूचयित्वा) अनुमतगमना शकुन्तला तरुभिरियं वनवासबन्धुभिः । परभृतविरुतं कलं यथा प्रतिवचनीकृतमभिरीदृशम् ॥ ९ ॥ (आकाशे।) रम्यान्तरः कमलिनीहरितैः सरोभि- श्छायाद्रुमौर्नियमितार्कमयूखतापः । भूयात्कुशेशयरजोमृदुरेणुरस्याः शान्तानुकूलपवनश्च शिवश्च पन्थाः ॥ १० ॥ (सर्वे सविस्मयमाकर्णयन्ति ।) गौतमी-जाते, ज्ञातिजनस्निग्धाभिरनुज्ञातगमनासि तपोवनदेवताभिः । प्रणम भगवतीः । शकुन्तला-(सप्रणामं परिक्रम्य, जनान्तिकम् । ) हला प्रियंवदे, नन्वार्यपुत्रदर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या दुखेन मे चरणौ पुरतः प्रवर्तेते। प्रियंवदा-न केवलं तपोवनविरहकातरा सख्येव । त्वयोपस्थितवियोगस्य तपोवनस्यापि तावत्समवस्था दृश्यते ।