पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(118) त्वामामनन्ति प्रकृति पुरुषार्थप्रवर्तिनीम् । तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ॥ १३ ॥ त्वं पितॄणामपि पिता देवानामपि देवता । परतोऽपि परश्चासि विधाता वेधसामपि ॥ १४ ॥ त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतः । वेद्यं च वेदिता चासि ध्याता ध्येयं च यत्परम् ॥ १५ ॥ —कुमारसंभवे द्वितीयः सर्गः ।