पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 15 ) Beauties from Kalidasa Devotional P:ayers offered by gods to Hari, when they wer molested by Paulastya ( Râvana ). ईशप्रशस्तिः। नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते । अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने ॥ १ ॥ रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते । देशे देशे गुणेष्वेवमवस्थास्त्वमविक्रियः ॥ २ ॥ अमेयो मितलोकस्त्वमनर्थी प्रार्थनावहः । अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम् ॥ ३ ॥ हृदयस्थमनासन्नमकामं त्वां तपस्विनम् । दयालुमनघस्पृष्टं पुराणमजरं विदुः ॥ ४ ॥ सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः । सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक् ॥ ५ ॥ सप्तसामोपगीतं त्वां सप्तार्णवजलेशयम् । सप्ताचिर्मुखमाचख्युः सप्तलोकैकसंश्रयम् ॥ ६ ॥ चतुर्वर्गफलं ज्ञानं कालावस्थाश्चतुर्युगाः । चतुर्वर्णमयो लोकस्त्वत्तः सर्वं चतुर्मुखात् ॥ ७ ॥ अभ्यासनिगृहीतेन मनसा हृदयाश्रयम् । ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये ॥ ८ ॥ अनस्य गृह्णतो जन्म निरीहस्य हतद्विपः । स्वपतो जागरूकस्य याथार्थ्यं वेद कम्तव ॥ ९ ॥