पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(235) वनेषु सायंतनमल्लिकानां विजृम्भणोद्गन्धिषु कुड्मलेषु । प्रत्येकनिक्षिप्तपदः सशब्दं संख्यामिवैषां भ्रमरश्चकार ॥१६-४७॥ पश्यावरोधैः शतशो मदीयैर्विगाह्यमानो गलिताङ्गरागैः । संध्योदयः साभ्र इवैष वर्णं पुष्यत्यनेकं सरयूप्रवाहः ॥१६-५८॥ तेनावरोधप्रमदासखेन विगाहमानेन सरिद्वरां ताम् । आकाशगङ्गारतिरप्सरोभिर्वृतो मरुत्वाननुयातलालः॥१६-७१॥ तस्य सन्मन्त्रपूताभिः स्नानमद्भिः प्रतीच्छतः । ववृधे वैद्युतस्याग्रेर्वृष्टिसेकादिव द्युतिः ॥ १७-१६ ॥ बभौ भूयः कुमारत्वादाधिराज्यमवाप्य सः । रेखाभावादुपारूढः सामग्र्यमिव चन्द्रमाः ॥ १७-३० ।। सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः । स चकर्ष परस्मात्तदयस्कान्त इवायसम् ॥ १७-६३ ॥ समाप्तम् ।