पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 203 ) न हि प्रफुल्लं सहकारमेत्य वृक्षान्तरं कासति षटपदालिः ॥ ६. ६९ ॥ रत्नं समागच्छतु काञ्चनेन ॥ ६. ७९ ॥ मनो हि जन्मान्तरसंगतिज्ञम् ।। ७. १५ ॥ धूमो निवर्त्येत समीरणेन यतस्तुकक्षस्तत एव वह्निः ॥ ७. ५५ ॥ प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते ॥ ८.४० ॥ अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु ॥ ८. ४३ ॥ विषमप्यमृतं क्वचिद्भवे- दमृतं वा विषमीश्वरेच्छया ॥ ८. ४६ ॥ परलोकजुषां स्वकर्मभि- र्गतयो भिन्नपथा हि देहिनाम् ॥ ८. ८५ ॥ मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः । क्षणमप्यवतिष्ठते श्वस- न्यदि जन्तुर्ननु लाभवानसौ ॥ ८. ८७ ॥ द्रुमसानुमतां किमन्तरं यदि वायौ द्वितयेऽपि ते चलाः ॥ ८.९० ॥ अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः ॥ ९. ७४ ॥ कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो बीजप्ररोहजननीं ज्वलनः करोति ॥ ९. ८० ॥