पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 10 ) कालिदासप्रशस्तिः। निर्गतासु न वा कस्य कालिदासस्य सूक्तिषु । प्रीतिर्मधुरसार्द्रासु मञ्जरीष्विव जायते । -बाण-हर्षचरितम् ॥ साकूत-मधुर-कोकिल-विलासिनी-कण्ठकूजितप्राये । शिक्षासमयेऽपि मुदे रतलीलाकालिदासोक्ती ॥ -गोवर्धनाचार्यः। यस्याश्चोरश्चिकुरनिकरः कर्णपूरो मयूरो भासो हासः कविकुलगुरुः कालिदासो विलासः । हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु बाण: केषां नैषा कथय कविताकामिनी कौतुकाय ॥ -जयदेवः ।। एकोऽपि जीयते हन्त कालिदासो न केनचित् । शृंगारे ललितोद्गारे कालिदासत्रयी किमु ॥ ---राजशेखरस्य सूक्तिमुक्तावलिः । काव्येषु नाटकं रम्यं तत्रापि च शकुन्तला । तत्रापि च चतुर्थोऽङ्कस्तत्र श्लोकचतुष्टयम् ॥ पुरा कवीनां गणनाप्रसंगे कनिष्ठिकाधिष्ठितकालिदासा। अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ।। कालिदासकविता नवं वयो माहिषं दधि सशर्करं पयः । शारदेन्दुरिव सा च कोमला स्वर्गसौख्यमुपभुञ्जते नराः ॥ कविरमरः कविरचल: कविरभिनन्दश्च कालिदासश्च । अन्ये कवयः कपयश्चापलमात्रं परं दधति ॥ ..