पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 164 ) भाग्यास्तमयमिवाक्ष्णोर्हृदयस्य महोत्सवावसानमिव । द्वारपिधानमिव धृतेर्मन्ये तस्यास्तिरस्करणम् ॥ ११ ॥ विदूषकः--( जनान्तिकम् । ) दरिद्र इवातुरो वैद्येनौषधं दीयमानमिच्छसि । (प्रविश्य ।) हरदत्तः--देव, मदीयमिदानीं प्रयोगमवलोकयितुं क्रियतां प्रसादः। राजा-(आत्मगतम् ।) अवसितो दर्शनार्थः। (दाक्षिण्यमवलम्ब्य प्रकाशम् । ) ननु पर्युत्सुका एव वयम् । हरदत्तः-अनुगृहीतोऽस्मि । (नेपथ्ये) वैतालिकः--जयतु जयतु देवः । उपारूढो मध्यान्हः । तथा हि । पत्रच्छायासु हंसा मुकुलितनयना दीर्घिकापद्मिनीनां सौधान्यत्यर्थतापाद्वलभिपरिचयद्वेषिपारावतानि । बिन्दुक्षेपान्पिपासुः परिसरति शिखी भ्रान्तिमाद्वरियन्त्रं सर्वैर्स्त्रैः समग्रस्त्वमिव नृपगुणैर्दीप्यते सप्तसप्तिः ।। १२ ।। विदूषकः-अविध अविध । अस्माकं पुनर्भोजनवेलोपस्थिता । उचितवेलातिक्रमे चिकित्सका दोषमुदाहरन्ति । ( हरदत्तं विलोक्य । ) किमिदानी भणसि । हरदत्तः–नास्ति वचनस्यान्यस्यावकाशोऽत्र । राजा-तेन हि त्वदीयमुपदेशं श्वो वयं द्रक्ष्यामः । विश्राम्यतु भवान् । हरदत्तः–यदाज्ञापयति देवः । (इति निक्रान्तः ।) -मालविकाग्निमित्रे द्वितीयोऽङ्कः।