पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 151 ) गणदासः-(स्वगतम् ) आकृतिविशेषप्रत्ययादेनामनूनवस्तुकां संभावयामि । ( प्रकाशम् ) भद्रे, मयापि यशस्विना भवितव्यम् । यतः- पात्रविशेष न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः । जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥ ६ ॥ बकुलावलिका -अथ कुत्र वः शिष्या ? गणदासः--इदानीमेव पञ्चाङ्गाभिनयमुपदिश्य मया विश्रभ्यता- मित्यभिहिता दीर्घिकावलोकनगवालगता प्रवातमासेवमाना तिष्ठति । बकुलाबलिका-तेन हि पुनरनुजानातु मामार्यः । यावदस्या आर्यस्य परितोषनिवेदनेनोत्साहं वर्धयामि । गणदासः-दृश्यतां सखी। अहमपि लब्धक्षणः स्वगृहं गच्छामि। ( इति निष्कान्तौ।) ( नेपथ्ये ।) अलं बहु विकत्थ्य । राज्ञः समक्षमेवावयोरघरोत्तरयोर्व्यक्ति र्भविष्यति । राजा-( आकर्ण्य । ) सखे, त्वत्सुनीतिपादपस्य पुष्पमुद्भिन्नम् । विदूषकः-फलमप्यचिरेण द्रक्ष्यसि । (ततः प्रविशति कंचुकी।) कञ्चुकी-देव, अमात्यो विज्ञापयति अनुष्ठिता प्रभोराक्ज्ञेति । एतौ पुनर्हरदत्तगणदासौ उभावभिनयाचार्यौ परम्परजयैषिणौ । त्वां द्रष्टुमुद्यतौ साक्षाद्भावाविव शरीरिणौ ॥ १० ॥ .