( 145 ) अपि वनान्तरमल्पकुचान्तरा श्रयति पर्वत पर्वमु संनता। इदमनङ्गपरिग्रहमङ्गना पृथुनितम्ब नितम्बवती तव ॥ ४९ ॥ कथ तूष्णीमेवास्ते । शङ्के विप्रकर्षान्न शृणोति । भवतु । समीपमस्य गत्वा पृच्छामि। (अनन्तरे चर्चरी।) स्फटिकशिलातलनिर्मलनिर्भर बहुविधकुसुमविरचितशेखर । किंनरमधुरोगीतमनोहर दर्शय मम प्रियतमां महीधर ॥ ५० ॥ (चर्चरिकयोपसृत्याञ्जलिं बद्ध्वा।) सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी । रामा रम्ये वनान्तेऽस्मिन्मया विरहिता त्वया ॥ ५१ ॥ ( तथैव प्रतिशब्दं शृणोति । आकर्ण्य सहर्षम् । ) कथं यथाक्रमं दृष्टेत्याह भवतु । अवलोकयामि । (दिशोऽवलोक्य सखेदम् । ) अयं ममैवाय कंदरान्तरविसर्पी प्रतिशब्दः । ( इति मूर्च्छति । ) ( उत्थायोपविश्य सविषादम् । ) अहह, श्रान्तोऽस्मि । यावदस्या गिरिनद्यास्तीरे तर ङ्गवातमासेविष्ये । (द्विपदिकया परिक्रम्यावलोक्य च । ) इमां नवाम्बु कलुषां स्त्रोतोवहां पश्यता मया रतिरुपलभ्यते । कुतः तरङ्गभ्रूभङ्गा क्षुभितविहगश्रेणिरशना विकर्षन्ती फेनं वसनमिव संरम्भशिथिलम् । १०
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१५१
दिखावट