पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 126 ) मातलिः-दिष्टया धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन चायुष्मान्वर्धते । राजा-अभूत्संपादितस्वादुफलो मे मनोरथः । मातले, न खलु विदितोऽयमाखण्डलेन वृत्तान्तः स्यात् । मातलिः-(सस्मितम् ) किमश्विराणां परोक्षम् ? एत्वायुष्मान् । भगवान्मारीचस्ते दर्शनं वितरति । राजा-शकुन्तले, अवलम्ब्यतां पुत्रः । त्वां पुरस्कृत्य भगवन्तं. द्रष्टुमिच्छामि । शकुन्तला-जिह्वेम्यार्यपुत्रेण सह गुरुसमीपं गन्तुम् । राजा-अप्याचरितव्यमभ्युदयकालेषु । एह्येहि । - -शाकुन्तले सप्तमोऽङ्कः। Dialogue between Chitralekha and Urvashi who was rescued by King Vikrama from the hands of demons who had kidnapped her. King Vikrama and Urvashi inwardly love each other. (ततः प्रविशति रथारूढो राजा सूतश्च । भयनिमीलिताक्षी चित्रलेखादक्षिणहस्तावलम्बिता उर्वशी च ) चित्रलेखा-सखि, समाश्वसिहि, समाश्वसिहि । राजा-सुन्दरि, समाश्वसिहि । गतं भयं भीरु सुरारिसंभवं त्रिलोकरक्षी महिमा हि वज्रिणः । तदेतदुन्मीलय चक्षुरायतं निशावसाने नलिनीव पङ्कजम् ॥ ६ ॥