पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 117 ) राजा-वयस्य, अन्यच्च शकुन्तलायाः प्रसाधनमाभिप्रेतमस्माभिः । विदूषकः--किमिव ? सानुमती-वनवासस्य सौकुमार्यस्य विनयस्य च यत्सद्दशं भविष्यति। राजा- कृतं न कर्णार्पितबन्धनं सखे शिरीषमागण्डविलम्बिकेसरम् । न वा शरच्चन्द्रमरीचिकोमलं मृणालसूत्रं रचितं स्तनान्तरे ॥ १८ ॥ विदूषकः--भोः, किं नु. तत्रभवती रक्तकुवलयपल्लवशोभिनाग्रहस्तेन मुखमपवार्य चकितचकितेव स्थिता । ( सावधानं निरूप्य ) आः ! एष दास्याः पुत्रः कुसुमरसपाटच्चरस्तत्रभवत्या वदनमभिलङ्घति मधुकरः । राजां-ननु वार्यतामेष घृष्टः। विदूषकः-भवानेवाविनीतानां शासितास्य वारणे प्रभाविष्यति। राजा-युज्यते । अयि भोः कुसुमलताप्रियातिथे, किमत्र परिपतनखेदमनुभवसि ? एषा कुसुमनिषण्णा तृषितापि सती भवन्तमनुरक्ता । प्रतिपालयति मधुकरी न खलु मधविना त्वया पिबति ॥ १९॥ सानुमती-अद्याभिजातं खल्वेष वारितः । विदूषकः-प्रतिषिद्धापि वामैषा जातिः । राजा-एवं भोः, न मे शासने तिष्ठसि ।श्रूयतां तर्हि संप्रति ।