पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 113 ) राजा-वयस्य, स्वप्नो नु माया नु मतिभ्रमो नु क्लिष्टं नु तावत्फलमेव पुण्यम् । असंनिवृत्त्यै तदतीतमेते मनोरथा नाम तटप्रपाताः ॥ १० ॥ विदूषकः-मैवम् । नन्वङ्गुलीयकमेव निदर्शनमवश्यंभाविनः, अचिन्तनीयः समागमो भवतीति । राजा—(अङ्गुलीयकं विलोक्य ) अये, इदं तावदसुलभप- दभ्रंशि शोचनीयम् । तव सुचरितमङ्गुलीय नूनं प्रतनु ममेव विभाव्यते फलेन । अरुणनखमनोहरासु तस्या- श्च्युतमसि लब्धपदं यदङ्गुलीषु ॥ ११ ॥ सानुमती--यद्यन्यहस्तगतं भवेत् सत्यमेव शोचनीयं भवेत् । विदूषकः--भोः, इयं नाममुद्रा केनोपायेन तत्रभवत्या हस्ताभ्याशं प्रापिता? सानुमती—ममापि कौतुहलेनाकारित एषः । राजा-श्रूयताम् । तदा स्वनगराय प्रस्थितं मां प्रिया सबाष्पमिदमाह ‘कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यति' इति । विदूषकः-ततस्ततः । राजा--पश्चादिमां मुद्रां तदङ्गुलौ निवेशयता मया प्रत्यभिहिता। ८