( 132 )
राजा-( शकुन्तलां निर्वर्ण्यं आत्मगतम् )
इदमुपनतमेवं रूपमक्लिष्टकान्ति
प्रथमपरिगृहीतं स्यान्न वेत्यव्यवस्यन् ।
भ्रमर इव विभाते कुन्दमन्तस्तुषारं
न च खलु परिभोक्तुं नैव शक्नोमि हातुम् ॥ १९ ॥
( इति विचारयन्स्थितः। )
प्रतीहारी-अहो धर्मावेक्षिता भर्तुः । ईदृशं नाम सुखोपनतं
रूपं दृष्ट्वा कोऽन्यो विचारयति ?
शार्ङ्गरवः---भो राजन् , किमिति जोषमास्यते ?
राजा–भोस्तपोधनाः, चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः
स्मरामि । तत्कथामिभामभिव्यक्तसत्त्वलक्षणां प्रत्यात्मानं क्षेत्रिणमाशङ्क-
मानः प्रतिपत्स्ये ?
शकुन्तला—(अपवार्य ) आर्यस्य परिणय एव संदेहः । कुत-
इदानीं मे दूराधिरोहिण्याशा?
शार्ङ्गरवः--मा तावत् ।
कृताभिमर्शामनुमन्यमानः ।
सुतां त्वया नाम मुनिर्विमान्यः ।
मुष्टं प्रतिग्राहयता स्वमर्थं
पात्रीकृतो दम्युरिवासि येन ॥ २० ॥
शारद्वतः----शार्ङ्गरव, विरम त्वमिदानीम् । शकुन्तले, वक्तव्यमुक्तमस्माभिः । सोऽयमत्रभवानेवमाह । दीयतामस्मै प्रत्ययप्रतिवचनम् ।