पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिनकरीयटिप्पणं । त्वेन कार्यकारणभावस्य वक्तुं शक्यतया अन्यतरकर्मोभयकर्मभेदेन कार्यकारणभावद्वयस्म कर्मणि च वैआ. त्ययस्य कल्पनाया प्रयोजनाभावेन सन्दर्भविरोधात् नचान्यतरकर्मजन्य संयोगयोरेकविधकार्यकारणभावस्यैव स्वीकारे आद्योऽन्य तरकर्मजः तत उभयस्पन्दजन्य इति विभागानुपपत्तिरिति वाच्यम् कार्यकारणभावस्यैक- स्वेऽपि एकसंयोगोऽन्यतरमात्रनिष्टकर्मणा जायते अन्यस्तु उभयकर्मभ्यामपीति रीत्या विभागस्य संभवात् । नव प्रतियोगितासंबन्धेन संयोगस्याभावेऽपि सत्त्वेन क्रियायास्तनाभावात् व्यभिचार इति वाच्यम् । नास्ती. ति प्रतीतिसिद्धाभावनिष्ठप्रतियोगितातः अनेन संयुक्त इति प्रतीतिसिद्धायाः प्रतियोगिताया बैलक्षण्य स्यानु- भवसिद्धत्वेन तस्या एव कार्यतावच्छेदकसंबन्धवेनोएगमात् । न त्रितयोल्लिखित प्रतीतेः संबोगप्रतियोगि स्वविषय करवे पर्वतः श्येनसंयुकः इति प्रतीतिवत् श्येनः पर्वते संयुक्त इत्यपि प्रती या पर्वतादायपि संयो- गप्रतियोगित्वसस्वेन व्यभिचारो दुवार इति वाच्यम् । तादृशप्रतीतेरप्रसिद्धेः इथेनः पर्वते संयुक्त इति सप्तम्यु- लिखितप्रतीतेरेवानुभवसिद्धत्वात् । अत एवात्मा मनसा संयुज्यते मन इन्दियेण इन्द्रियमर्थेनेत्यत्र इन्द्रियं मनसा अर्थ इन्द्रियेणेत्यर्थः इन्द्रियादिनैवार्थादेः संयोगादिति तत्र तत्र विवरणं ग्रन्थकृता सङ्गच्छते । एतेन वृक्षसंयोगस्य वृक्षेऽपि सत्त्वेन तत्र क्रियाया अभावाद्यभिचारमाशय कार्यतावच्छेदकावच्छिन्न यत्किाञ्चेद्य- त्यधिकरणयावश्यक्तयत्यन्ताभावप्रतियोगितावच्छेदकधर्मवत्वमेव कारणताघटकामत्यादिवश्यमाणप्रया- सोऽपि न श्रद्धेय ः। प्रतियोगिताया; कार्यतावच्छेदकसंवन्धत्वाङ्गीकारे तादृशस्य व्यभिचारस्यैव प्रसक्तया तस्योक्तप्रलापतुल्यत्वादिति ध्येयम् ॥ पुटम् ( ७४४ ) तद्वद्विशेष्यकत्यावच्छिन्नतत्प्रकारकत्ववदनुभवत्वं तत्प्रमात्वम् । नन्वन पृथ्वीजलोभयं गन्धवदिति भ्रमेऽतिच्याप्तिः तत्रापि गन्धवद्विशेप्यकत्वावच्छिन्न गन्धप्रकारकत्वस्य सत्वात् । नच व्यासज्य. वृत्तिधर्मानवच्छिन्नतद्वन्निष्टविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्वं विवक्षितमिति वाच्यम् । तथा सति पृथि. वीजलोभयं द्रव्य मिति प्रमायामव्याप्तेः तत्र विशेष्यतायाः व्यासज्यवृत्तिधर्मावच्छिन्नत्वात् । ननु विशेष्यता. यां तदधिकरणतावच्छेदकधर्मावच्छिन्नत्वमेव निवेश्यते पृथिवीजलो भयत्वस्य च गन्धाधिकरणतागवच्छेदक. स्वान्नातिव्याप्तिरिति नच पृथिवीजलोभयत्वस्य गन्धाधिकरणसंबन्धित्वात् तदधिकरणतावच्छेदकत्वं कुतो नास्तीति वाच्यम् । गन्धाधिकरणे तस्य समवायसंवन्धेन संबन्धित्वेऽपि पर्याप्त्याझ्यसंवन्धेनासंबन्धित्वात् रङ्ग रजतत्यकदिति ज्ञानी याविशेष्यतानिरूपितसमवायसंवन्धावच्छिनावच्छेदकतावतो रङ्गत्वस्य रजतत्वाधिकरण- तानिरूपककालिकसंबन्धावच्छिन्नावच्छेदकत्वात् अतिव्याप्तिवारणाय स्वावच्छेदकतासंबन्धावच्छिन्न तदधि करणतावच्छेदकतावद्धर्मनिष्टावच्छेदकत्वस्य निवेशनीयतया विशेष्यतावच्छेदकीभूतपर्याप्तिसंबन्धावच्छिन्नत. दधिकरणतावच्छेदकताया उभयत्वेऽभावात् । नचोभयत्वस्य प्रत्येकानतिरिकतया उभयत्वस्य पर्याप्तिसंवन्धे. नगन्धाधिकरणसंवनिरत्वमस्त्येवेति तत्संबन्धावच्छि नतदधिकरणतावच्छेदकरवं कुतो नास्तीति वाच्यं पृथिवी जलोभयं गन्धवदिति प्रतीत्यभावेन स्वव्या पकागन्धाधिकरणतानिरूपितस्वरूपसंवन्धरूपाचच्छेदकत्वस्य उभयत्वेऽनङ्गीकारादिति चेत्र निरवच्छिन्नविशेष्यताघटकप्रमायामव्याप्तेः । नच तदधिकरणतावच्छेदकाव. छिन्नत्वं तदधिकरणतावच्छेदकव्यापकत्वमिति वाच्यम् । तथा सति घटघटोभयं घट इति भ्रमेऽति. व्याप्तेर्दुरित्वात् घटघटोभयत्वावच्छिन्नविशेष्यतायां घटाधिकरणतावच्छेदकतयक्तित्वव्यापकत्वात् नच तदधिकरणतावच्छेदकसमनियतत्वनिवेशनान्न दोषः घटसाधारण्यात्तादृशविशेष्यताया घटत्वाधि. करणतावच्छेदकाच्याप्यत्वादिति वाच्यं घटो द्रव्यमिति प्रमायामन्याप्तेः घटत्वावच्छिन्नविशेष्यतायाः द्रव्यत्वाधिकरणतावच्छेदकाव्यापकत्वात् । नच तदधिकरणतावच्छेद कयत्किञ्चिद्धर्म समनियतत्वं विवाक्ष तमिति घटत्वावच्छिन्नविशेष्यताया द्रव्यत्वाधिकरणतावच्छेदकीभूतघटत्वरूप यत्किञ्चिद्धर्म समनियतत्वात् नाव्याप्तिरिति वाच्यम् । तथापि घटपटोभयं घट इति भ्रमेऽतिव्याप्तेर्दुर्वरत्वात् घटपटान्यतरो घट इति प्रतील्यान्यतरत्वस्य घटत्वाधिकरणतावच्छेदकतया तत्समनियतत्वस्य घटपटोभयत्वावच्छिन्न- विशेष्यताया अव्याहतत्वात् । नापि तदधिकरणतानवच्छेदकानवच्छिनत्वं विशेष्यताविशेषणं अतो न कोऽपि दोष इति प्रत्युक्तं निरवच्छिन्नर जतविशेष्य तानिरूपितरशत्वप्रकारताशालिज्ञानस्य - प्रमा-