पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ दिनकरीयटिप्पणं । । साक्षाद्याध्यामिति नातिव्याप्तिः । नचैवं भावनायामव्याप्तिरिति वाच्यं संस्कारवान्यगुणत्वव्याप्यत्वे सति गुणत्वव्याप्यत्वे सति गुणत्वव्याप्यव्याप्यत्वस्यैव गुणत्वसाक्षायाप्यत्वपदेन विवक्षितत्वादिति चेन्न एवमपि सुखदुःखयोः अव्याप्तेर्दुरित्वात् मुखदुःखयोः कुत्रापि निमित्तकारणत्वाभावात् । नच तयोः स्वजनकीभूतध. माधर्मनाशे निमित्तकारणत्व मस्त्येवेति अव्याप्तिरिति वाच्यम् । तथा सति परत्वापरत्वयोरव्याप्त्यापत्तेः त- योः काप्यसमवायि कारणत्वाभावात् । निमित्तकारणत्वं च स्वध्वंसातिरिक्त कार्य प्रति । यदि च भावनिरूपि. तत्वं ध्वंसातिरिक्तनिरूपितत्वं वा निमित्तकारणतायां निवेश्य इयमतिव्याप्तिवार्यते तदा सुखदुःखयोरव्याप्ति रापतिता । अथ स्वध्वंसभित्र प्रत्यक्षातिरिक्तनिरूपितनिमित्तकारणव विवक्षिता अतो नाव्याप्त्यतिव्याप्ती इति चेन्न तथापि ज्ञायमानलिङ्गम्यानुमितिकरणतानये मूर्तत्वप्रकारकघटादिविशेष्यक नुमिती परत्वापरत्वयो. निमित्त कारणतयः परत्वादिकमादायातिव्यापqारत्वात सामान्य तो ज्ञानातिरिकत्वनिवेशे भावनायामव्या- प्तिरिति । अत्रोच्यते असमवाथिकारणावृत्तिस्वध्वं मभिन्नानुभवातिरिक्तानिरूपितनिमित्तकारणतावद्वृत्तिगुण- स्वव्याप्य जातिमत्वं विवक्षित संस्कारत्वं तु असमवायि कारणवृत्ति परममहत्त्वन्तु अनुभवातिरिके न निमि- त्तकारणं परत्वापरत्वे स्वश्वसभिन्नानुभवातिरिक्त प्रति निमित्तकारणे इति नातिव्याप्तिः सुखदुःखयोश्चोत्तरं अतिरिक्त स्वजनकीभूतपूर्वनाशे निमित्तकारणत्वमस्येवेति नाव्याप्तिः । वस्तुतः सर्वेष्वात्मदिशेषगुणेषु स्वाव्य - वहितपूर्वक्षणोत्पन्नयोग्यविशेषगुणनाशनिमित्तकारणत्वमस्त्येवेति सुलभव लक्षणसङ्गतिः । उष्णस्पर्शगुरुत्ववेग दवत्वसंयोगविभागानां असमवाथिकारणत्वे मति निमिसकारणत्वं लक्षणम् । नन्वन्त्रासमवायिकारणत्वविशि- टनिमित्तकारणत्वमसमवाय कारणत्वाभाव वति अन्त्यावयविगतोष्णस्पर्शादी पाकजाद्यजनकेषु यत्किञ्चिद्वृत्ति विशेषेषु चाव्याप्तं अतिश्याप्तं च कर्मणि कुलालचेष्टायाः घटं प्रति निमित्तकारणत्वात् संयोगाद्यसमवायिका रणत्वाच्च । न त्व समवायिकारणत्व विशिष्टनिमित्तकारणतावत्तिकगुणत्वव्याप्यजातिमत्त्वं विवक्षितं नाव्याप्त्य- तिव्याप्ती इति वाच्यं संयोगविभागयोरव्याप्त्यापत्तः असमवायिकारणयोमरीदण्डसंयोगददयविभागयोनि- मित्तकारणत्वात् निमित्तकारणयोर्भया काशसंयोगदद्वयविभागयोश्च असमवायिकारणत्या भावाञ्च समवायि- कारणत्वावशिष्टनिमित्तकारणत्ववतोस्संयोग विभागयोरप्रसिद्ध । अथ यत्र हस्ताकाशयोरभिघाताख्यसंयो- गात् शब्दो जायते तत्र हस्ताकाशसंयोगे निमित्तकारणं नच संयोगः शरीराकाशसंयोग प्रति असमवा- यिकारणं तथाच यः समदायि कारणत्वविशिष्टनिमित्तकारणतावान् स एव हस्ताकाशसंयोगः प्रसिध्यति तथा चासमवायिकारणत्वनिमित्तकारणत्वोभरावत्याः संयोगव्यतरप्रमिद्धकथनं दिनकरस्य सङ्गतमिति चेन्न तथापि विशिष्टाश्रयीभूत विभागव्य चोर पारिद्धिर्दुवारैव परस्पर विभज्य मानवंशदळाकाशविभागभवस्य शब्दनिमि- त्तकारणस्य वंशाकाशविभागं प्रति असमवायिकारणत्वाभावात् वंशदळाकाशविभागकाले वंशस्य नष्टत्वात् कारणाकारण विभागजन्य कार्याकार्यविभागस्य च शब्द प्रति निमित्तकारणत्वाभावात् अवयवद्वयविभागस्थल एवं शब्दोत्पत्तेः असमवायिकारणवृत्तिनिमित्तकारणवृत्तित्वव्याप्य जातिमत्वं विवाक्षितं संयोगत्वादेः प्रत्येक - वृत्तितामादाय लक्षणसमन्वय इति चेन्न तथाविधोष्णस्पर्शवृत्तिस्पर्शत्ववतोरनुष्णाशी तस्पर्शयोः तथाविधवेग. वृत्तिसंस्कारस्वादिजातिमतोः स्थितस्थापकभावनयोश्चातिव्याप्तेवारत्वात् । ननु तादृशगुणत्वव्याप्यजातिमत्त्वं विवक्षितं तादृशी चोष्णत्वजातिरेवेति नातिव्याप्तिः वेग तु वेगत्व जातिरेर तथा गुरुत्वे फलत्यादिजातिः द्र- वत्वे तु सांसिद्धिकद्रवत्वनैमित्तिकद्रवत्वे संयोगविभागयोः संयोगविभागाकयादिजन्यतावच्छेदका जातयः तादृश्यः प्रसिद्धा इति सर्वत्र लक्षण समन्वय इलि चेन्न नैमित्तिकद्रवत्वे अव्याप्तेः नैमित्तिकद्रवत्वस्य पिण्डी. भावनिमित्तकारणतया अन्यत्र प्रत्युक्तत्वात् स्नेहत्वव्याप्योत्कर्षापकर्षायवैजार द्वयमादायातिव्याप्तेश्च । स्नेहस्यापि पिण्डीभावनिमित्तकारणत्वापिण्डीभावातिरिक्तनिरूपितत्वस्य निमित्तकारणताविशेषणत्वं स्वीकृत्यै. व तद्दोषपरिहारे मांसिद्धिकद्रवत्वे अव्याप्तिः तस्य पिण्डीभावातिरिक्तं प्रति अनिमित्तकारणत्वात् स्नेहाजन्य- पिण्डीभावातिरिक्तत्वमपि न सम्यक् स्नेहसांसिद्धिकदवत्व योस्समनियतत्वात् स्नेहवृत्तित्वं जातिविशेषणत्वं स्वीकृत्यैव तद्दोषपरिहारेऽपि नैमित्तिकद्रवत्वे अव्याप्तिारैवेति । उच्यते । असमवायिकारणावृत्तिज्ञानाति-- रिक्तभावनिरूपितनिमित्तकारणतावदवृत्तिशीतस्पर्शस्न हावृत्तिगुणत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वादिति सर्व 1