पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गङ्गारामजटीयं । ८६७ रणतावच्छेदकत्वान्यतरसंबन्धेन प्रकृतानुभितिनिष्ठकार्यताविशिष्टविषयत्वावच्छिन्न प्रतिबध्यतानिरूपितप्रति. बन्धकेत्यर्थकरणेनानुपपत्त्यभावात् वह्निमान् धूमादित्यादौ वयभावविशिष्टहू दत्वावच्छिन्ननिरूपितविषयत्वाव. च्छिन्न प्रतिबन्धकताया अतिरिकविषयत्वादच्छिन्नप्रतिबध्यतानिरूपितत्वाभावेनातिव्याप्त्यनवकाशात् व्यभि- चारादौ व्याप्तिविषयत्वावच्छिन्न प्रतिबध्य तो बाधादौ साध्यविशिष्टपक्षविषयकत्वावच्छिन्न प्रतिबध्यतां चादाय लक्षणसमन्वयः। नच तथापि पर्वतो व हिमान् हुदो वह्निमानिति समूहालम्बनात्मकप्रकृतानुमितिनिष्टकार्यता- विशिष्टविषयिता वहिप्रकारतानिरूपितहूदत्वावच्छिन्नविशेष्यतानिरूपितविशेष्य तापि तदवच्छिन्नं प्रति प्रतिब. ध्यतामादाय वह्निमान् धूमादित्यादौ वह्नयभाववद्धदस्यापि दोषत्वापत्तिर्दुारैवेति वाच्यम्। प्रकृतानुमितिनि- ठेत्यस्य प्रकृतपक्षक प्रकृतसाध्यकप्रकृतहेतुकानुमितित्वव्यापकत्यर्थकत्वात् वहित्वावच्छिन्नप्रकारतानिरूपितह- दत्वावच्छिन्नविशेष्यतानिरूपितविशेष्यत्वावच्छिन्न कार्यतायाश्च वह्निमद्भदाविषयकप्रकृतानुमितावसत्त्वेन प्र. कृतानुमितित्वव्यापकत्वाभावात् । अथवा प्रकृत्तानुमितित्वव्यापकप्रतिवध्यताप्रकृतानुमितिकारणीभूतज्ञान- त्वव्यापकप्रतिबध्यतान्यतरप्रतिबध्यतानिरूपितप्रतिबन्धकतैव निवेशनीया । व्यभिचारादौ व्याप्तिज्ञानप्रति. बन्धकता बाधादौ चालुमितिप्रतिबन्धकतामादाय लक्षण समन्वयः । वहिमान् धूमादित्यादौ वयभाववद्धद- स्वावच्छिन्ननिरूपितविषयत्वावच्छिन्न प्रतिबन्धकतायाश्चान्यतरप्रतिबध्यतानिरूपितत्वाभावात् नातिव्याप्तिः । एवं निर्वह्निः पर्वतो वह्निमानित्यादौ न कोऽपि हेत्वाभासः स्यात् तादृशानुमितेरप्रसिद्धत्वादिति यदुक्तं तद- पि न विचारसहम् । तथाहि य द्रूपावच्छिन्नविषय कनिश्चयाव्यवहितोत्तरक्षणोत्पत्तिकानुमितित्वव्यापकः प्रकृत- पक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितप्रकृतसाध्यतावच्छेदकावच्छिन्न प्रकारतानिरूपित प्रकारित्वप्रकृतपक्ष. तावच्छेदकावच्छिन्नविशेष्यतानिरूपितप्रकृतसाध्यतावच्छेदकावच्छिन्ननिरूापेतव्याप्स्यवच्छिन्न प्रकृतहेतुताव- च्छेदकावच्छिन्नप्रकारतानिरूपित्तप्रकारित्वोभयाभावः तद्धर्मावच्छिन्नत्वामिति विवक्षणेन सर्वानुपपत्तिपरिहार. संभवात् । तथाहि पर्वतो वह्नयभाववान् निर्वाह्नमानित्यादौ आश्रयासिद्धिबाधज्ञानानन्तरमुत्पन्नानुमितिसा- मान्ये मिथ: आहार्यज्ञान प्रसिद्धयोनिरुक्तप्रकारित्वयोरुभयोरभावस्य सत्त्वानिर्वह्निः पर्वतो वह्निमानित्यादौ आश्रयासिद्धेः निवाहवाहमानित्य दो बाधस्य च दोषत्वसंभव इत्यादिभट्टाचार्य कृतदीधितिटिप्पणिरीत्या अ- वसेयम् ॥ इत्यनुमानखण्डः ॥ पुटम् ( ५५६ ) अन कल्पे चैत्र एव पचतीत्यादौ चैत्रे सङ्खयान्वयोपपादनं सम्यक् विभावनीय- मिति चैत्रस्य धात्वातिरिक्त एवकारार्थान्यत्वविशेषणादिति भावः । अत्र चैत्रः चैत्रं पश्यतीत्यादौ धात्व- तिरिक्तविषयताविशेषणत्वाच्चै त्रे आख्यातोपात्तमङ्खयान्वयानुपपत्तिवारणाय धात्वर्थनिष्ठप्रकारतानिरूपित. विशेष्यत्वाभावविशिष्टधात्वातिरिक्तनिष्ठविशेष्यतानिरूपितप्रकारत्वामावस्य धात्वर्थेत्यादिना विवक्षणीयत- या विषय तानिष्ठविशेष्य तानिरूपित प्रकारतायाः धात्वनिष्ठप्रकारतानिरूपितविशेष्यत्वाभावविशिष्टतया तत्र चैत्रे आख्यातोपात्त सङ्ख्यान्वयवत् निरुक्तस्थलेऽपि एव कारार्थान्यत्वनिष्ठविशेष्यतानिरूपितप्रकारतायाः धा. स्वर्थनिष्ठप्रकारतानिरूपितविशेष्यत्वाभावविशिष्टतया आयातोपात्तसङ्घयान्वयोपपत्तिरिति विभावना । ननु नव्यनये विभक्त्यर्थस्य संसर्गतया भानानुपगमात् चैत्र एव पचतीत्यादौ आख्यातार्थाश्रयत्वादेः संसर्गत्वा. पेक्षया प्रकारत्वमेवाते न धात्वर्थविशेष्यत्वं चैतस्येति चैत्रे आख्यातोपात्तसङ्खयान्वयानुपपत्तिः । नच धा- त्वनिष्ठप्रकारतानिरूपितविशेष्यत्वाभावः धात्वर्थनिष्टप्रकारतानिरूपितविशेष्यत्वाभाव एवेति नानुपपत्तिरिति वाच्यम् । सविषयवाचकधातुसमभिव्याहताख्यातस्य निरर्थकत्ववादिनये चैत्रः चैत्रं पश्यतीत्यादौ निरुतवि. शेष्यत्वाप्रसिद्धयाख्यातोपात्तसङ्ख्यान्वयानुपपत्तेर्दुवारत्वादिति चेन्न धात्वर्थनिष्टप्रकारतानिरूपितविशेष्यत्वा- भावस्य विवक्षणात् उक्तनयेऽप्यनुपपत्तेरभावात् । तिर्थधार्मिणि नामार्थान्वयस्यव्युत्पन्नतया नेदं शक्तिप्रह. स्योदाहरणमिति तु नये योऽयं शूदस्य पचतीलादौ तिङर्थधर्मिणि तथान्वयदर्शनादिति अन्थः ॥ इति श. दखण्डः॥ ॥ अथ गुणनिरूपणम् ॥ पुटम् ( ६५३ ) सामान्यवस्वे सति कर्मान्यत्वे सति कर्मवदवृत्तिपदार्थावभाजकोपाधिमत्त्वं गु-