पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिनकरीयटिप्पणं । नच तानवच्छेदकस्वात्रयनिष्ठजन्य तानिरूपितजनकताकानुभवविभाजकधर्मवत्वं विवाक्षतं स्वपदेन प्रत्यक्षस्व. स्य उपादेयतया लक्षणसमन्वयः अनुमितित्वन्तु नोपादातुं शक्यत इति नातिव्याप्तिरिति वाच्य- म् । एतस्य ईश्वरप्रत्यक्ष साधारणतया ईश्वर प्रत्यक्षसाधारणलक्षणान्तरप्रणयनानुपपत्तेः । न्यप्रत्यक्षस्यैव लक्ष्यत्वमिति मते जन्य प्रत्यक्षत्वमेव अनुभवविभाजकमिति नेश्वरप्रत्यक्षसाधारण्य मेतस्येसि वा. ध्यम्। तथाप्यनुमि याश्रय मिठ कार्यत्वःवच्छिन्नजन्य तानिरूपितद्रव्यत्वावच्छिन्न जनकतावस्य इन्द्रियन्वसभाना- धिकरणभेदप्रतियोगितावच्छेदकतानवच्छेद कतयानुमित्यादावातव्याप्तेवारत्वादिति चेन्न जन्यतायां समवा. मसंबन्धावच्छिन्नन्वस्य कार्यत्वानवच्छिन्नत्वस्य वा निवेशेनादोषात् । यद्वा इन्द्रियत्वव्याप्यधर्मावरिछन्नजन कतानिरूपित जन्यताशालित्वं विवक्षितम् । नन्वेवं मनस्त्यावच्छिन्न जनकतामादायानुमितावतिव्याप्तिः तदव. स्थैव नच साक्षात्कारत्वव्याप्यधर्मावच्छिन्नत्वेन जन्यताविशेषणात् ज्ञानत्वादच्छिन्नत्वेन वा तद्विशेषणानायं दोष इति वाच्यम् । तथा सतीन्द्रियत्वव्याप्यधर्मावच्छिन्नत्वस्य वैयथ्यांपत्तरिति चेन्न । मनस्त्वातिरिकेन्द्रिय. स्वव्याप्यधर्मावच्छिन्न जनकतानिरूपितजन्यतावद्वत्त्यनुभवाविभाजकधर्मवस्वस्य विवक्षितत्वादिति । त्वक्स निकर्षस्य कारणतायां परमाणुघटित सन्निकर्षण स्पार्शनवारणाय महत्वावच्छिन्नत्वं प्रभाघटित सन्निकर्षण पार्श- नवारणाय म्पर्शवत्वावच्छिन्नत्वादिति । नन्वत्र स्पर्शस्पार्शनान्यथानुपपत्या त्वसंयुक्तसमवायस्य स्पर्शत्वस्पा. शनान्यथानुपपत्त्या त्वक्संयुक्तसमवेतसमवायम्य च कारणत्वावश्यकत्वेऽपि त्रुटेः स्पार्शनानङ्गीकारात् त्वक्संयो- गस्य कारणत्वे मानाभावः । नच त्रसरेणुस्पार्शनवारणाय स्पर्शान्यद्रव्यसमवेतस्पार्शनं प्रति त्वक्संयुक्तस्पार्शनव त्समदायत्वन कारणत्वस्य वक्तव्य तया चतुरणुकस्पार्शनोपपत्त्यर्थ त्वक्संयोगस्य कारणत्वमावश्यकमिति वाच्य- म् । त्वक्संयुक्तमहदुद्भुतस्पर्शवत्समवायत्वेन कारणत्वकल्पनये व त्रुटिस्पार्शनधारणसंभवेन तेनैव चतुरणुकस्पार्श- नस्योपपादयितुं शक्यत्वादिति चेन्न त्रसरेणुपरिमाणपार्शनवारणाय तथा कल्पनाया असंभवेम त्वक्संयुक्त- स्पार्शनवत्समवायत्वेनैव स्पर्शान्यव्यसमवेतस्पार्शनं प्रति कारणताया वक्तव्यतया चतुरणुकस्पार्शनोपपादनाय त्वसंयोगहेतुताया आवश्यकत्वात् । स्पान्यद्रव्यसमवेत्तस्पार्शनं प्रति त्वक्संयुक्तस्पाशनवत्समवायित्वेन कारणत्वे स्पर्यस्पर्शनोपपत्त्यर्थ कार्यकारणभावे कल्पना ये द्रव्यसमवेतस्पार्शनं प्रति त्वक्संयुक्तसमवाथित्वेनैव कारणाला कल्पते तेनैव चतुर णुकस्वार्शनोपपत्तिः । न चैवं सति चतुरणुकस्पार्शनस्य पार्शनवत्वक्संयुक्तसमवा- यकार्यतावच्छेदकःकान्तवाद्यतिरेकव्यभिचार इति वाच्यम् त्वक्संयोगहेतु तामतेऽपि तद्दोषस्य तुल्यतया - न्यद्रध्य समवेतविषयकस्पार्शनत्वस्य पार्श नवसमवायिकार्यतावच्छेदकत्वात् । नचैवं त्रसरेणुस्पार्शनापत्तेः तत्स्पार्शनस्य निरुतापार्शनवत्समवायि कार्यतावच्छेदकाक्रान्तत्वादिति वाच्यम् । द्रव्य समवेतस्पार्शने प्रति त्व संयुक्तमहदुद्भूतस्पर्श वत्समवायित्वेनैव कारणतायाः कल्पनीयतया तद्वारणसंभवात् । न चैतत्कार्यकारणभावे- नैव त्रसरेणुस्पार्शनवारणसंभवे पार्शनवत्समवायस्य पृथक्कार णत्वे प्रमाणाभाव इति वाच्यम् । त्रसरेणुगत. संख्यापरिमाणादिस्पार्शनवारणाय ताशकार्यकारणभावस्यावश्यकत्वादिति । एवंच त्वक्संयोगकारणतां वि- नापि चतुरणुकस्पार्श नमुपपद्यत एवेति चेन्न । स्पर्शान्यद्रव्यसमवेतस्पार्शनं प्रति त्यसंयुकम्पार्शनवत्स- मवायित्वेन कारणत्वेनोपपत्तौ द्रव्य समवेतस्पार्शनं प्रति त्वक्संयुक्तसमवायस्य कारणत्वे मानाभावः । नच स्पर्शस्पाशनान्यथानुपपत्त्या तदावश्यकतेति वाच्यं महत्वादिघटितसामग्रीबलादेव तदुत्पादसंभवात् । नचै- नमसन्निकृष्टपर्शस्पार्शनापत्तिरिति वाच्यम् एकाश्मय मात्रघटित सन्निकर्षबलेन संयोगविभागद्वित्वादिस्पार्श- नवारणाय द्रव्य समवेतविषय कस्पार्शनं प्रति स्वाश्रयसमवेतत्वसंबन्धेन स्वक्संयोगाभावस्य प्रतिबन्धकताया आवश्यकतया तत एवासनिकृष्टस्पर्शस्पार्शनवारणसंभवात् । एवं च चतुरणुकस्पार्शनस्य स्वाशनवत्समवायेनो- पादातुमशक्यतया त्वक्संयोगहेतुताया आवश्यकत्वात् । नन्वत्रापि महत्त्वादिघटितसामग्रीबलादेव च- तुरणुकस्पाशनमुपपादयितुं शक्यं द्रव्यसमवेतस्पार्शनं प्रति पूर्वोक्तस्वाश्रयसमवेतत्वसंबन्धेन त्वक्संयोगाभावा- विरोधितयैवासनिकृष्टचतुरणुकम्पार्शनवारणसंभवादिति चेन्न । एकाश्रयमात्रघटित सन्निकर्षस्थले द्रव्यस्पार्श. नोत्पत्त्या व्यभिचारेण गुणस्पार्शनत्वस्यैव तत्तत्कार्यतावच्छेदकतावश्यकतया असनिकृष्टचतुरणुकस्पार्शनवारणाय त्वक्संयोगहेतुताया आवश्यकत्वादिति ॥ इति प्रत्यक्षखण्डः ।। ।