पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिनकरीयटिप्पणं । 1 वक्षणीयतया एनेनैवोक्त दोषवारणसंभवेनाधिकरणताया लक्षणप्रवेशस्य व्यर्धतया तथाचेत्यादिप्रन्थोऽनुपपन्नः ।। पुटम् ( १०७) असंबन्धः प्रतियोगितानुयोगितान्यतरसंबन्धेन समवायाभावः प्रतियोगितानुयो. गितान्यतरसंबन्धावच्छिन्नविलक्षणावच्छेदकताकस मवाय प्रतियोगिताकाभाव इत्यर्थः । यथाश्रुते तादृशान्य. तरप्रतियोगितासंबन्धेन समवायाभावस्याकाशादौ सत्त्वेन जातिबाधकत्वानुपपत्तेः नन्वत्र प्रतियोगिलासंब धनिवेशो व्यर्थः अनुयोगितासंबन्धेन समवायाभावस्यैव वक्तव्यत्वात् । अत्र केचित् विशेषादीनामनुयोगि. तासंबन्धेन समवायाभावादेव जायभावसिद्धौ रूपहान्यादीनां पृथग्जातियाध तोत्कीर्तनासाङ्ग त्यापत्तरिति तदनुरोधेन प्रतियोगितासंबन्धनिवेश इत्याहुः । वस्तुतस्तु समवायत्वादीनां जातिवादीनां समवायेऽनुयोगिता- संबन्धेन समवायाभावस्यासिद्धत्वेन परमतसिद्धस्यैव साधकत्वेन तस्य समवायादौ जात्यभावसायकस्वानुप- पत्तिरिति जातिप्रतियोगितानिरूपितानुयोगितासंबन्धेन समवायाभावस्य विवक्षणीयतया गुणादावधि जाति- प्रतियोगितानिरूपितानुयोगिता संबन्धेन समवायाभावस्य सत्त्वात् तस्य जातिबाधकत्वानुपपत्तिरिति प्रति- योगितासंबन्धात्यापि निवेशनम् । तथाच गुणादौ प्रतियोगितासंबन्धेन समवायसत्त्वानानुपपत्तिरिति बोध्यम् ॥ पुटम् (२.५९ - २६३) गन्धसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वं पृथिवीलक्षणं अत्र पृथिवाजला. न्यतरत्वमादा यातिव्याप्तिवारणाय जातिपदमित्युक्त महादेवन । तन्न समवायेन तद्वत्त्वनिवेशेन तद्वारणात् कि न्तु पृथिवीजलसंयोगादिकमादायवेति बोध्यम् । अत्रान्य दपि दूषणं केचिद'हुः । तथाहि अत्र मूर्त स्वजातिमादा- यातव्याप्तिरवं पृथिव्यादिचतुष्टये स्पर्शजनकतावच्छेदकतया पृथिव्यादित्रय रूपजनकतावच्छेदकतया पृथिवी. जलयोः र सजनकतावच्छेदकत या च वैजात्याङ्गीकर्तृन ये तान्यादायातिव्याप्तिः । नच गन्धसमानाधिकरणपदेन गन्धानधिकरणावृत्तित्वं विवक्षितामति वाच्यं उत्तर दळवैयापत्तेः गन्धानधिकरणावृतिधर्मवत्त्वात्यैव सम्य - क्त्वात् । नच गन्धानधिकरण वृत्तिद्रव्यत्वव्याप्यजातिशून्यत्वमिति लक्षणार्थः द्रव्यत्वव्याप्यत्वञ्च द्रव्यत्वसमाना- धिकरणभेदप्रतियोगितावच्छेद कत्वं नातो गुणादावतिव्याप्तिरिति वाच्यं सामान्यादावाकाशादौ चातिव्याप्तेः । नच गन्धानधिकरणवृत्तिद्रव्यत्वव्याप्यजातिशून्यत्वे सति द्रव्यत्वव्याप्यजातिमत्त्व विवक्षितमिति वाच्यं उत्पन्न विनष्टघटाणाकर्तृनये असंभवस्य दुवारत्वात् तन्न तादृशजात्यङ्गीकारे गन्धसमानाधिकरणद्रव्यविभाज- कोपाश्रिमत्वस्य गन्धसमानाधिकरणाजलावृत्तिजातिमत्त्वस्य वापि विवक्षितत्वात् । अन्येतु गन्धसमवायिका- रणतावच्छेदकावच्छिन्नभिन्नवृत्तिद्रव्यत्वव्याप्यजाति शन्यत्वे सति द्रव्यत्वव्याप्यजातिमत्त्वं विवक्षितं एतादृशार्थ- लाभायैव मूले गन्ध हेतुरित्युक्तं उत्पन्नविनटघटस्थापि गन्धसमवायिकारणतावच्छेद कावच्छिन्नत्वात् न दोषः विशेष्यदळेन सामान्यादावाका शादौ च नातिव्याप्तिरित्याहुः। तन्न तथा सति गन्धसमचायिकारणतावच्छेदकाव- च्छिन्नमात्रस्यैव सम्यक्त्वेन यथोक्तगुरुतरकुसृष्टिकल्पनाया निर्वाजत्वात् ॥ य हव्यमिति । अत्र घटध्वंसप्रत्य. क्षे घटोपादानानुपादेये व्यभिचार वारणाय प्रथमद्रव्यपदम् । अथवा घटध्वस जन्यरूपध्वंसे व्यभिचारवारणाय वा मिथ्याज्ञानध्वंसजन्य कायव्यूहे नवीनमते दण्डस्वरूप दण्डप्रागभावध्वंसजन्ये घटे व्यभिचारवारणाय द्वितीयं द्रव्यपदम् । प्रतिबन्धकद्रव्यात्यन्ताभावजन्ये द्रव्ये व्यभिचारदारणाय ध्वंसपदम् । ध्वंसत्वे- नेह जनकत्वं विवक्षितं तेन प्राची मते प्रतियन्धकसंसर्गाभावत्वेन तस्य हेतुत्वेऽपि न क्षतिः । ध्वंसजन्यत्वं चादृष्टाद्वारा विवक्षित सेन साळप्रामध्वंसजन्यनारकीयशरीरे न व्यभिचार इति महादेवप्रन्थः । नन्वत्र ध्वंसत्वेन जनकत्वविवक्षणे प्रथमं द्रव्यपदं व्यर्थ घटध्वंसप्रत्यक्षे घटध्वंसात्य विषयत्वेन तत्तयक्तित्वे. न वा जनकतया ध्वंसत्त्वेनाजनकत्वात् । नचैत दस्वरसेन अथवेत्यादिना स्थलान्तरमनुसृतं तव च समवेत. कार्यमाशत्वावच्छिनं प्रति आश्रयाभूतावयविनाशत्वेन जनकरवानानुपपत्तिरिति वाच्यम् । तथापि स्वप्रागभाव- ध्वंसरूपदण्डजन्यघटे व्यभिचारवारकतयोपातं द्वितीयं द्रव्यपदं व्यर्थ दण्डस्य दण्डत्वेनैव घट जनकत्वात् नच तथापि मिथ्याज्ञानध्वंसजन्य कायम्यूहे व्यभिचारवारणाय तदवश्यमुपादेयमिति वाच्यं तस्य विचारासहत्वा- भिप्रायेणैव स्वप्रागभावध्वंसात्मकदण्डानुसरणात् । तथाहि मिथ्याज्ञानध्वंसस्य कायव्यूहहेतुत्वे अस्मदादीना- मपि तदापत्तेः । यद्यपि मिथ्याज्ञानप्रागभावासमानकालीनमिथ्याज्ञानध्वंसत्वेन हेतुत्वं वक्तुं शक्यते तथापि तस्य हेतुत्वमप्रामाणिक प्रारब्धेतरकर्मजन्यासमवहितत्वज्ञानाच्यादृष्टस्यैव तदेतृत्तायास्याम्प्रदायिकोलावा.