पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गङ्गारामजटीय। त् । नच यत्राङ्कुरविशेषे कस्याप्यनुमितिर्न जाता तादृशाङ्गुरविशेषे अतिव्याप्तिरिति वाच्यं तादृशाकुरविशेधे प्रमाणाभावात् । अनुमित्यविषयत्वमित्यनेन अनुमितिविषयतासमानाधिकरणपदार्थविभाजकोपाध्यवच्छिन्न- प्रतियोगिताकभेदबत्त्वविवक्षणाद्वा न दोष इति । एतेन तद्विशेषैतद्विशेषौ विशेषान्तरभित्री तद्विशेषैतद्विशे- घान्यतरत्वात् इत्याकारकानुमितिविषयतामादायासंभव इत्यपि परास्तम् । तादृशानुमितीयस्वेतरवृत्तिधर्मानव- च्छिन्नविशेष्यतासमानाधिकरणपदार्थविभाजकोपाध्यवच्छिन्न प्रतियोगिताकभेदवत्त्वविरहेणासंभव इति स्वेतर- त्तिधमांवच्छिन्नविशेष्यतानिरूपकपरं ख विशेष्यकपदमावश्यकमित्यपि परास्तम् । तद्विशेषो विशेषान्तरभिन्नः तद्विशेषैतद्विशेषान्यतरत्वात् इत्यनुमितिविषयतामादायासंभववारणाय स्वभिन्नत्यनेन स्वाविषयकप्रमितिविष- यत्वविवक्षाया आवश्यकत्वात् तत एव निरुक्तविषयतामादाय दोषवारणसंभवेन स्वविशेष्य कपदं व्यर्थमे- वेति मन्तव्यम् ॥ पुटम् (१७५) गुणवदवृत्तित्वं च समवायस्वरूपान्यतरसंबन्धेन । समवायेन गुणवदवृत्तित्वाभिधा। ताशस्य द्रव्यत्वप्रकारकप्रमाविशेष्यत्वस्य द्रव्ये सत्त्वादतिव्याप्तिः ! अथ तेनैव तद्वत्त्वं वाच्यं तदा सामा- न्यादवव्याप्तिरिति परास्तमिति दिनकरप्रन्थः । अत्रेदमवसेयं स्वरूपसंबन्धेन गुणवदवृत्तित्वस्य तद्वत्त्वस्यापि स्वरूप संबन्धेनैव विवक्षणेनैव द्रव्यादावतिव्याप्तः सामान्यादावव्याप्तेश्च वारणसंभवे समवायस्वरूपान्यतरसं. बन्धेनेति व्यर्थम् । गुणादौ च गुणत्वप्रकारकप्रमाविशेष्यत्वमादायव लक्षणसमन्वयसंभवात् । नच गुणत्वादि- कमिति मूलविरोधापत्त्या तथा विवक्षितमिति वाच्यम् । तत्र गुणत्वपदस्य गुणत्वप्रकारकप्रमा विशेष्यत्वपरतया व्याख्यानसंभवात् । नचात्पन्नविनष्टदव्याङ्गीकर्तृनये गुणवदवृत्तितव्यक्तित्व मादायाति- व्याप्तिवारणाय गुणवत्तिधर्मशून्यत्वस्य विलक्षणीयतया विशेष्यभेदेन विशेष्यत्वादीनां भेदात् गुणवदवृत्तिद्रव्यत्वप्रकारकप्रमाविशेष्यत्वादीनां उत्पन्नविनष्टद्रव्ये अभावात् पुनस्तद्दोषतादस्थ्यामिति समवा. यस्वरूपान्यतरसंबन्धेन गुणवद्वृत्तित्वस्य तच्छून्यत्वस्य च विवक्षणमावश्यकमिति वाच्यम् । गुणत्वाभाव- सत्वादिकमादायासंभववारणाय गुणसमवायिकारणतावच्छेदकावच्छिन्नप्रतियोगिताकभेदसमानाधिकरणता वच्छेदकावच्छिन्न प्रतियोगिताकाभाववत्त्वस्य विवक्षणीयतया द्रव्यत्वप्रकार कप्रमाविशेष्यतास्वमादायोत्पन्नवि. नष्टद्रव्येऽतिव्याप्तिवारणादन्यतरसंबन्धनिवेशवैययस्य दुष्परिहरत्वात् । गुणवद्भेदनिवेशस्तु न संभवति उत्प. शविनष्टदव्येऽतिव्याप्तरिति ॥ पुटम् (२०६) तद्धर्मावच्छिन्ननिरूपितनियतपूर्ववृत्तित्वग्रहविशेष्यतावच्छेदकत्वे सति तद्धर्मावच्छि. नं प्रति स्वतन्त्रान्वयव्यतिरेकशून्यत्वं तद्धर्मावच्छिन्नं प्रत्यन्यथासिद्धत्वामेति प्रथमित्यर्थः । द्वितीयान्यथा- सिद्धदण्डरूपादि वारणाय सत्यन्तम् । कपालसंयोगो घटनियतपूर्ववतीत्यादिप्रहे कपालस्यापि तादृशविशेष्यताव. च्छेदकत्वात् तत्रातिव्याप्तिवारणाय विशेष्यमिति प्रत्यपादि महादेवेन । नच दण्डरूपान्यः घटनियतपूर्ववृत्तीति प्रहविशेष्यतावच्छेदकत्वात् दण्डरूपस्य उक्तातिव्याप्तिारैवेति वाच्यं तद्धर्मावच्छिन्ननिरूपितनियतपूर्व- वृत्तिसावच्छेदकधर्मान्तरानवच्छिन्नविशेष्यतावच्छेदकत्वस्य विवक्षितत्वात् । पूर्ववृत्तित्वं च स्वावच्छिन्नं प्रा. ह्यम् । अवच्छेदकत्वं च तद्धर्मावच्छिन्नाभावप्रयोजकीभूतामात्र प्रतियोगितावच्छेदकत्वविशिष्टं प्राह्यम् । तेन पूर्ववृत्तित्वस्य दण्डत्वावच्छिन्नपूर्ववृत्तित्वप्रहविशेष्यतावच्छेदकत्वेऽपि पूर्ववृत्तित्वेऽपि च स्वस्वव्या. तरयावत्कारणविशिष्टकार्याभावप्रयोजकीभूताभावप्रतियोगितानवच्छेदकत्वान्नातिप्रसङ्गः कारणतावच्छेदकस्यै. तल्लक्षणेऽप्यक्षततया स्वेनैव परिगणितत्वात् दण्डत्वादेरलक्ष्यतया तत्रातिव्याप्तिवारणाय स्वनिष्ठावच्छेदकता. निवेशः । नन्वेवमपि कपालसंयोगत्वे अतिव्याप्तिः कपालसंयोगो घटनियतपूर्ववृत्तीत्याकारकपू- वृत्तित्वप्रहविशेष्यतावच्छेदकताया नियतपूर्ववृत्तितावच्छेदककपालत्वावच्छिन्नत्वादिति चेन्न नियतपूर्व- वृत्तितावच्छेदकधर्म स्वसमानाधिकरणत्वस्य विशेषणत्वात् कपालत्वस्य कपालसंयोगत्वसामानाधि- करण्याभावेन उक्तदोषाभावात् । नन्वेवं संयुक्तसमवेतसमवायत्वेऽव्याप्तिः संयुक्तसमवेतसमवायत्वनिष्टायाः पूर्ववृत्तित्वप्रहविशेध्यतावच्छेदकतायाः द्रध्यसमेवतसमवेतविषयकचाक्षुषत्वावच्छिन्ननिरूपितस्वाश्रयसमवेत- स्वसंबन्धावच्छिन्ननियतपूर्वकृतितावच्छेदकस्तसमानाधिकरणसंयुक्तसमवायत्त्वावच्छिन्नत्वात् । नव नियतपू