पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गङ्गारामजटीयं । - रणाय विशेष्यामिति पेशा स्वरूपासिद्धपापतेः तत्तनिष्ठसादृश्यव्यक्तीनां परस्पराधिकरणनिष्ठात्यन्ताभावप्रति- योगित्वे सादृश्यत्वरूपसामान्यधर्मावच्छिन्नप्रतियोगिताकामावस्यासिद्धया सान्यत्वे स्वरूपसंबन्धावच्छिन्न- प्रतियोगितावच्छेदकत्वासात्वात् सादृश्यं स्वरूपसंबन्धेन न वर्तते किन्तु समकायेनेत्यङ्गीकारेण वरूपासिद्धि- परिहारे तु पूर्वोत्तरीत्या प्रमेयत्वे व्यभिचाराप्रसक्त्या व्यतिरेकित्वविशेषणं व्यर्थमित्यादि । पुटम् (४२) दुःखवदवृत्त्यात्मानात्मवृत्तिभिन्नद्वित्वासमानाधिकरणत्वरूपमेकत्वं भासत इति वक्तुं न शक्यते ई- श्वरे ज्ञानद्वयानीकारेऽपीदशैकत्वस्य भानसंभवादित्युक्तं महादेवेन । इदं तु बोध्यम् । स्वसजातीयनिष्ठभेदप्रतियो- गितानवच्छेदकतयक्तित्वस्यापि निवेशने ईश्वरे झानद्वयानीकारे प्रत्येकनिष्ठतद्यफित्वस्य स्वसजातीयज्ञानान्तर- निष्टभेदप्रतियोगितावच्छेदकत्वेनादोष इति । साजात्यं च स्वसमवायि समवेतत्वस्ववृत्तिगुणविभाजकोपाधि- मत्त्वोभयरूपेण ! स्वसमवाथिसमवेतत्वानिवेशे स्ववत्तिगुणविभाजकोपाधिमदस्मदादीयज्ञाननिष्ठभेदप्रतियो- गितावच्छेदकत्वात् ईश्वरीयज्ञानगततद्यक्तित्वस्य बाधः स्यात् तन्मात्रनिवेशे स्वसमवायीश्वरसमवेसकृत्यादि. निष्ठभेदप्रतियोगितावच्छेदकत्वात्तदोषः अत उभयमुपातं खाधिकरणकालवृत्तिज्ञानान्तरनिष्ठभेदप्रतियोगिता. वच्छेदकत्वात् स्ख समवायोति । दिषयतायाः स्वसमवायिकारणवृत्तिज्ञानान्तरनिष्ठभेदप्रतियोगितावच्छेदकत्वात् तत्समवेतत्वे सतीति । स्ववृत्तित्वं गुणविभाजकोपाधिमत्वं च समवायेन । तेन वियितया स्ववृत्तिकृतिम- निभेदप्रतियोगितावच्छेदकत्वेऽपि विषयितया स्ववृत्तिज्ञानत्ववत् कृत्यादिनिष्ठभेदप्रतियोगितावच्छेदकत्वेऽ. पि न दोष इति । वस्तुतस्तु स्वाधिकरणावृत्तिस्वाभित्रज्ञानत्वमेकत्वामित्युक्तं महादेवेन । तदर्थश्च स्वाधिकरण- वृत्तिस्वभिन्नज्ञानकभिन्नत्वं । अन्यथा ईश्वरे ज्ञानद्वयाङ्गीकारेऽपि स्वाधिकरणावृत्तियत्किञ्चि जीवज्ञानकत्वात्तदोषानु. द्धारात् । नच ईश्वरद्वयानीकारेऽपि प्रत्येकतज्ज्ञाने ईदृशौकत्व संभवादिति वाच्यं स्वसमानाधिकरणभेदप्रतियोगि- तावच्छेदकस्वसजातीयभिन्नत्वेन विशेषणात् ईश्वरद्वयानीकारे च एकस्यापि ज्ञानस्य तथालासंभवात्। साजात्यं च खसमानाधिकरणदुःखत्वभिन्नत्वान्यतरसमवेतत्वरूपेण । स्वसामानाधिकरण्यमन्यतरविशेषणं । अत्र दुःखवत्त्वा. मुपादाने स्वसमानाधिकरणभेदप्रातयोगितावच्छेदकस्व समानाधिकरणवदुःखवद्भिन्नत्ववत्समवेताप्रसिद्धयाप. त्तिः दुःखचद्धिमत्वानुपादाने ईश्वरदयाङ्गीकारेऽपि स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकस्वसमानाधिकरण- दुःखवासमवेतकभिन्नत्वसंभवादुद्देश्यासिद्धया अन्यतरनिवेशः । अत्रेदं चिन्तनीयं एतादृशैकत्ववत्कृतिजन्यत्व- स्यानुमितिविषयत्वे पक्षतावच्छेदकसामानाधिकरण्येनानुमितेमद्देश्यत्वे घटादाबंशतस्सिद्धसाधनामिति नि- रक्तशकाया असञ्जतेः एतादृशैकत्ववत्कृतिजन्यत्वस्य घटादावनिश्चितत्वात् ॥ पुटम् ( १०४ ) सरश्च परस्परात्यन्ताभावसमानाधिकरणयोधर्मयोरेकन समावेश इत्युक्त महा. देवेन । तथाच स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्यस्वसमानाधिकरणात्यन्ताभावप्रतियोगत्वैतस्त्रित- यसंबन्धन जातिविशिष्टत्वं सायमिति फलितम् । ननु घटत्वस्य जलत्वेन साङ्कय स्यात् तदधिकरणे का. लिकसंबन्धेन वर्तमानत्वात् एवं घटत्वस्य पृथिवीत्वेन सायं स्यात् तदभावाधिकरणे कालिकसंबन्धेन सत्वात् एवं पृथिवीत्वस्य घटत्वेन सायं स्यात् घटत्वाधिकरणनिष्ठाभावीयसंयोगसंबन्धावच्छिन्न प्रतियोगितायास्सत्त्वा- त् । नच वृत्तिताद्वयं प्रतियोगित्वं च समवायेन विवक्षितमिति वाच्यं इन्द्रियत्वादेातित्वानङ्गीकर्तृनये समवा- यसंबन्धेनावृत्तित्वात् तेजस्वादिना साकल्नुपपत्तेः स्वरूपसंबन्धेन विवक्षणे तु इन्द्रियत्वस्य जातित्ववादि- नं प्रति तेजस्वादिना सार्योद्भावनानुमापके तन्मते तस्य स्वरूपसंबन्धेन वृत्तित्वानङ्गीकारात् । यत्तु स्वसा- मानाधिकरण्यं स्वाधिकरणासमवेतं यत्समवेतं तद्भिन्नत्वं एवं स्वाभावसामानाधिकरण्यमपि स्वाभावाधिकर- णासमवेतं यत्समवेतं तत्तद्भिनत्वमिति तन्न अभावत्वाकाशत्वकालत्वादीनामपि घटत्वादिना साकादेव जा. तित्वाभावे असंबन्धैकवृत्तित्वतुल्यवृत्तित्वादीनां पृथक् जातिबाधकत्वकीर्तनासत्यापत्तेरिति चेन्न स्थाधिकर- निरूपितसमवाय संबन्धावच्छिन्नवृत्तित्वस्वरूपसंचन्धावच्छिन्नवृत्तित्वान्यतरवत्व-स्वाभावाधिकरणनिरूपितस- मवाय संबन्धावच्छिन्नवृत्तित्वस्वरूपसंबन्धावच्छिन्नवृत्सित्वान्यतरवस्वस्वसमानाधिकरणाभावीय समवायसंब- न्धावच्छिन्न प्रतियोगित्वखरूपसंबन्धावच्छिन्न प्रतियोगिकत्वोभयवत्वैतत्त्रितयसंबन्धेन सार्यपदार्थत्वात् ॥ 108 - जातिविशिष्टत्वस्य