पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । भावनाख्यस्तु संस्कारो जीववृत्तिरतीन्द्रियः । उपेक्षानात्मकस्तस्य निश्चयः कारणं भवेत् ।। १६० ।। भावनाख्य इति !! तस्य संस्कारस्योपेक्षात्मकज्ञानात् संस्कारानुत्पत्तेरुपेक्षानात्मक इत्युक्तं तत्संशयात् तस्यानुत्पत्तनिश्चय इत्युक्तं तेनोपेझान्धनिश्चयत्वेन संस्कार प्रति हेतुते- ति भावः ॥ १६० स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते । धर्माधर्मावदृष्टं स्याद्धर्मः स्वर्गादिकारणम् ॥ १६१ ।। गङ्गास्नानादियागादिव्यापारः स तु कीर्तितः। कर्मनाशाजलस्पर्शादिना नाश्यस्त्वसौ मतः ॥ १६२ ।। ननु स्मरणं प्रत्युपेक्षान्यनिश्चयत्वेन हेतुत्वं तेनोपेक्षादिस्थले न स्मरणम् । इत्थं च संस्कार प्रति ज्ञानत्वेनैव हेतुतास्त्विति चेन्न विनिगमनाविरहेणापि संस्कार प्रति उपेक्षान्य- निश्चयत्वेन हेतुतायाः सिद्धत्वात् कि चोपेक्षास्थले संस्कारकल्पनायाः गुरुत्वात् संस्कार प्रति उपेक्षान्यत्वेन हेतुतायाः सिद्धत्वात् ॥ असौ संस्कारः ! तल प्रमाणं दर्शयति ।। स्म- रण इति ।। यतः स्मरणं प्रत्यभिज्ञानं च जनयत्यत: संस्कारः कल्प्यते । विना व्यापार । प्रभा. सत्सु तादृशयत्नाभावे पुनः पूर्वदेशसंयोगजनकक्रियानुत्पत्त्या लिङ्गाभावेन तत्र स्थितस्थापकसत्त्वे मानाभा- वादिति भावः ॥ १५९ ॥ इत्थंचेति ॥ स्मरणं प्रति उयक्षान्यनिश्चयत्वेन हेतुत्वं स्वीकृत्योपेक्षात्मकज्ञानात् स्मृतिवारण इत्यर्थः ॥ ज्ञानत्वेनैवेति ॥ उपेक्षाद्यन्यत्वाविशेषित ज्ञानस्वेनैवेत्यर्थः ।। हेतुत्तास्त्विति ॥ लाचवादित्याशयः । सं. स्कार प्रत्युपेक्षान्यनिश्चयत्वेन हेतुतायामेव विनिगमकमातीत्याह ।। किंचेति ॥ संस्कारं प्रति केवलज्ञान- खेन हेतुतास्वीकार इत्यादिः ॥ उपेक्षास्थल इति ! उपेक्षाविशिष्टात्मनीत्यर्थः ॥ संस्कारकल्पनाया गुरुत्वादिति ॥ संस्कार कल्पनाप्रयुक्तगौरवदोषादित्यर्थः ॥ उपेक्षान्यज्ञानत्वेनेति ॥ तादृशज्ञानत्वेनैवे. त्यर्थः ॥ सिद्धत्वादिति ॥ आवश्यकत्वादित्यर्थः । तथाच तेनैवानतिप्रसङ्गे स्मरणं प्रत्यपि न तेन रूपेण हेतुन्वं गौरवादित्याशयः । एतत्तत्त्वं प्रागेव दर्शितं तत्र भावनात्वं अनुभवस्वावच्छिन्नव्यापारानवच्छिन्न- कारणतानिरूपितकार्यतावच्छेदकतया सिद्धो जातिविशेषः । तद्वत्त्वमेव भावनासामान्य लक्षणमिति बोध्यम् | अस्मद्गुरुवरणास्तु भावनात्वं च स्मृत्तित्वावच्छिन्ननिरूपितव्यायारसंबन्धानव च्छिनकारणतावच्छेद कतया सि. द्वो जातिविशेष इति व्याचक्रुः । ननु संस्कारस्य लैविध्यमप्रामाणिक भावनायां मानाभावादित्याशङ्का प्रमा- णप्रदर्शनेन परिहरति ॥ मूले स्मरणे प्रत्याभिज्ञायामित्यादि ॥ उद्देश्यबाचकपदस्य प्रागपेक्षितत्वा- प्रथमतः तस्यानुसन्धानार्थं पश्चानिर्दिष्टस्याप्य सावित्यस्यादी अर्थमाह ॥ मुक्तावळ्यामसौ संस्कार इति ॥यत इति ॥ अनुभव इत्यादिः । यादृशव्यापारसहकारादेवेत्यर्थः । अत इति ॥ तादृशव्यापारस- दिनकरीयम् . स्थितिस्थापकश्च क्रियाविशेषजनकः स्वजन्यक्रियानाश्योऽतीन्द्रियश्चेति मूले उक्तप्रायम् ॥ १५९ ।। इत्थं च उक्तप्रकारेणोपेक्षाज्ञाचात् स्मृतिवारणे च । वस्तुतः संस्कार प्रत्युपेक्षान्यनिश्चयत्वेन हेतुत्व एव विनिगमकमस्तीत्याह ॥ किं चेति ॥ संस्कारकल्पनाया गुरुत्वादिल्यस्य स्मृति प्रत्येवोपेक्षान्यनिश्चयत्वे. न हेतुत्व इत्यादिः । सिद्धत्वादि त्यप्रिनस्सापि पञ्चम्यन्तस्य नेत्यनेनान्वयः । उद्देश्यवाचकपदस्य प्रागपेक्षितत्वा तू सथान्वयप्रदर्शनार्थमुदीच्यस्याप्यसावित्यस्य प्राक् धारणमिति बोध्यम् ॥ तत्र संस्कारे ॥अतः संस्कार: 106