पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । ८३९ संस्कारभेदो वेगोऽथ स्थितिस्थापकभावने। मूर्तमात्रे तु वेगः स्यात् कर्मजो वेगजः कचित् ॥ १५८ ।। संस्कारं निरूपयति ॥ संस्कारभेद इति ।। वेगस्थितिस्थापकभावनाभेदात् संस्का- रस्त्रिविध इत्यर्थः । मूर्तमात्र इति ।। कर्मजगजसेदाद्वेगो द्विविध इत्यर्थः । शरीरादौ हि नो- दनजनितेन कर्मणा वेगो जन्यते तेन च पूर्वकर्मनाशस्तत उत्तरकर्म एवमग्रेऽपि विना च वेगं कर्मणः कर्मप्रतिबन्धकत्वान् पूर्वकर्मनाश उत्तरकर्मोत्पत्तिश्च न स्यात् यत्र वेगवता क- प्रभा. संस्कारपदशक्यतावच्छेदकतया सिद्धजातिविशेपबत्त्वं संस्कारसामान्यलक्षणं स्फुटमिति मत्वा तं विभजते । मूले संस्कारभेद् इति ॥ भिद्यतेऽनेनेति भेदशब्दस्यासाधारणधर्मपरत्वात् तन्निष्ठासाधारणधर्मो लभ्यते । वेगोऽथ स्थितस्थापकभावने इत्यत्र वेगादिशब्दानां भावप्रधानपरतया वेगवादित्रयं संस्कारधर्म इति फ- लितम् । तथाचैतादृशधमन्त्रयान्यतगाभिन्न प्रकारत्रयान्यतमविशिष्ट संस्कार इति तद्वाक्याच नशाब्दबोध इति भावः ॥ मूर्तमात्रे तु वेगः स्यादिति ॥ अमूर्तावृत्तिबैग इत्यर्थः । तथाच अमूर्नसमवेत्तावृत्तिमनस्सम. वेतवृत्तिजातिमत्त्वं प्रत्यक्षसिद्धवेगवजातिमत्त्वं वा वेभसामान्य लक्षणमिति भावः । कर्मजो वेगजः काचदि. ति मूलस्य वेगविभाजक परत्वं स्पष्टयति ॥ मुक्तावळ्यां वेगो द्विविध इत्यर्थ इति । स्वयं तदुदाहर- ति ॥ शरीरादाविति ॥ वसमवेतवेगासमानकालीन देहादाविन्यर्थः ॥ कर्मणेति ॥ यत्नपदात्मसंयोग- जन्यकर्मणैवेत्यर्थः ॥ वेग इति पूर्वेणान्वयः । पूर्व तदधिकरणे वेगाभावेन तादृशवेंगस्य वेगजन्यत्वासंभ- वादिति भावः । प्राचीन कदेशिमतानुसारेण वेगस्य करनाशकत्वं कर्मोत्पाद करवं च व्यवस्थापयति ॥ तेन चेति ॥ तादृशोगेनैवेत्यर्थः । पूर्वकर्मनाश इति ॥ स्वजनकर्मनाश इत्यर्थः ॥ तत इति ॥ तादृश - नाशादित्यर्थः ।। उत्तर कर्मचात । उभयत्र जन्यत इत्यनुष णान्वयः ॥ एवमग्रेऽपीति ।। द्वितीयादिकर्मणा पूर्ववेगनाशः ततो वेगान्तरोत्पत्ति तुल्यन्याये न स्वीकार्यत्यर्थः । ननु वेगस्य नाशकत्वे मानाभाव इत्यत आह !! विना च गमिति ॥ तस्य कर्मनाशो न स्यादित्युत्तरेणान्वयः उत्तर संयोगाश्रयनाश रूपनाशकयोरभावादि- त्याशयः। अत्रेप्टापत्तौ दोष माह ॥ उत्तरकोत्पत्तिश्चेति ॥ तल न स्यादित्यत्र हेतुप्रतिपादकः कर्मण, कर्मप्रतिबन्धकस्यादिति पूर्वग्रन्थ इति ध्येयम् अत्र पूर्वोत्तर संयोगायव पूर्व कर्मनाशकतायाः सकलतान्त्रिकसिद्ध. तसा वेगस्य क्रियानाशकत्वमप्रामाणिकमेव नवं सति नाशकाभावेन पूर्व क्रियारूप प्रतिबन्धकसवार कर्मा- न्तरोत्पत्त्यनुपपत्तिरिति वाच्यम् उत्तरसंयोगात्पूर्व क्रियान्तरानुत्पत्तौ बाधकामावेन इष्टापत्तेः अन्यथा वेगत्य क्रि. यानाशकत्वे संयोगविभागयोरनपेक्ष कारणं कर्मेति सूत्रविरोधापत्तिः संयोगमचुत्पाद्यैव कर्मणो नाशस्वीकारेण संयोगासाधारणत्वाभावात् पूर्वसंयोगनाशावच्छिन्नोत्तरसंयोगप्रागभावो वा उत्तरसंयोगावच्छिन्नं कर्म चेति मु- कावळीग्रन्थविरोधापत्तिश्च संयोगमनुत्पाद्यैव कर्मणो नाशस्वीकारात् । नचैवं सति वेगस्च क्रियाजनकरवे मा- नाभावेन वेगस्य द्वितीयादिपतनासमवायिकारणत्वप्रतिपादकमुक्तावळीग्रन्थविरोध इति वाच्यम् । अन्वय- व्यतिरेकाभ्यामेव द्वितीयादिक्रियां प्रति वेगस्य जनकत्वस्वीकारेण तादृशान्थविरोधाप्रसोरत एव देगेन ग. छति वेगेन पतत्तीत्याद्यनुभव: एतादृशप्रामाणिकव्यवहारश्च सङ्गच्छते तस्मान्मुक्तावळीपूर्वग्रन्धपर्यालोचन या विश्वनाथपञ्चाननस्य वेगस्य कर्मनाशकावे न निर्भर इति प्रतिभात ॥ यति ॥ यादृश इत्यर्थः । तस्य च वेगो जन्यत इत्यत्र वेगे अन्वयः ॥ वेगवतेति ॥ वेगविशिष्टनेत्यर्थः इदं च जायमानघटादिवेगकारण- सम्पत्त्यर्थम् ॥ वातेन चलित इति । तादृशवायुजन्य चलनाश्रय इत्यर्थः । स वेगजो वेग इति योजनीयः । दिनकरीयम्. वेगो जन्यत इति ॥ वेगत्वं तु जातिविशेषः प्रत्यक्षसिद्धः ॥ तेनेति ॥ कर्मनाशकस्योत्तरसंयोगस्य तदानीमभावाद्वेगस्यैव कर्मनाशकत्वं कल्प्यत इति भावः ॥ तत इति ॥ पूर्वकर्मनाशानन्तरमित्यर्थः ॥ ए. बमग्रेऽपीति ॥ उत्तरकर्मणापि पूर्ववेगनाशस्त तो वेगान्तरोत्पत्तिरित्येषा दिगित्यर्थः ॥ बिना च वेगमि-