पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्डा न प्रवर्तते । यस्तु वेद पौरुषेयत्वं नाभ्युपैति तं प्रति विधिरेव सावद्गर्भ इव श्रुतिकुमार्याः प्रमा. इति ॥ इत्याकारकशाब्दबोध इत्यर्थः । भवतीति शेषः । ननु सकल नैयायिकैः प्रथमान्तपदसमाभिव्या- हारस्थले प्रथमान्तार्थमुख्यविशेष्यकशाब्दबोधस्यैव स्वीकृतत्वेन प्रकृते धात्वर्थमुख्यविशेष्यकशाब्दबोधस्वी- कारः अनुचितः अन्यथा सर्वतापि तादृशयोधस्वीकारोचियेन प्रथमान्त मुख्यांवशेष्य कशाब्दबोधविलय प्रसन्न इति चेन आचार्यः आप्ताभिप्रायस्य विध्यर्थत्वमात मङ्गीकृतम् । नतु धात्वर्थ मुख्यविशेष्य कशाब्दबोधोऽपि एवं चेत्यादिभुसावलीप्रन्थोऽपि न यागमुख्यविशेष्यकशाब्दबोधपरः किंतु विध्यांश यागविशेष्यकबोधपर एव अन्यधा विधिप्रत्ययस्य कृतित्वावच्छिन्नशक्तत्वासंभवेन लः कर्मणीत्यादिसूनविरोधापत्तेः तथाच कुति- साध्यत्वप्रकारकाप्तसमवेतेच्छाविषय यामानुकूल कृतिमान स्वर्गकाम इत्याकारकशाब्दबोधस्यैव विधिवाक्या. जायमानतया उक्तदोषाप्रसक्तः कृतिसाध्यत्व प्रकारकाप्ताभिप्राय मात्रात्यैव विध्यर्थत्वात् स्वर्गकामकृतित्वेन बोधस्तूतरकालीनमानस इति । केचिन प्रथमान्त पदोपस्थाप्यस्याख्यातार्थे विशेष्यत्वनियमात् आख्यातार्थ स्यानुकूलत्यविषयत्वान्यतरसंबन्धेन धात्वर्थविशेष्यत्वनियमाच कथं प्रथमान्तपदोपस्थाप्यस्वर्गका- भादेराख्यातार्थे आख्यातायस्य च पात्वर्थेऽन्वयः । अन्यथा चैत्रः पचत्तीत्यादावपि चैत्रवृत्तिकृतिसाध्यः पाक इत्यन्वयबोधापत्तेरिति चेदन्यत्र तथा निय मेऽप्यत्र न तथा नियमः व्युत्पत्तिवैचित्र्यादिति गृहाण । अत ए- व इष्टसाधनत्वादेविध्यर्धत्वपक्षेऽपि प्राचीनाः स्वर्गकामकृतिसाध्य स्वर्गसाधनं याग इति बोधमङ्गीकुर्वन्तीत्या. क्षेप परिहारं चाहुः । तदसत् विधिस्थले धात्वर्थ मुख्यविशेष्यकबोधस्यावश्यकत्वे तदनुरोधेन सर्वत्र ताशबो. धस्यैव स्व।कर्तुं शक्यत्वात् । अन्यथा प्रथमान्तपदसमभिध्याहारस्थलेऽनियत मुख्यविशेष्यकचोधस्वीकारे नैयायिका: वैयाकरणप्रभृतिभिः परिहास्याः स्युरत एकविधवोध एव स्वीकार्यः । अन धात्वर्यमुख्यविशे- ध्यकबोधावलम्बने वैयाकरणमतप्रवेशः स्वमतेऽपि वैयाकरणम तोकदोषप्राप्तिश्चेति प्रथमान्तमुख्यविशेष्यकबोध एंव सर्वत्र स्वीकार्य: स च विधिस्थलेऽप्युपपादित एति । यो कमिष्टसाधनत्वादेविध्यर्थत्ववांदिनो नयायिकाः स्वर्गकामकृतिसाध्यः स्वर्गसाधनं याग इति बोधमङ्गीकुन्तीति तत्सत्यम् । इष्टसाधनस्वकृतिसाध्यत्वांशे यागत्य विशेष्यविधथैव भानं नतु मुख्यविशेष्यतया आस्यातार्थकृतित्वावच्छिन्ने यागस्य प्रकारत्वात् यागांशे स्वर्गकाम- समवेतकृतिसाध्यत्वबोधस्तु मानस एवेत्युक्त एवातस्मात् धात्वर्थमुख्यविशेष्य कचोधस्वीकारपक्षस्य सः प्राची. नैनवीन पित्तत्वात् तत्पशावलम्बन नोकदूषणवारणमनुचितमेवेत्यास्तां ग्रन्थविस्तरेण ।। ततश्चेति ॥ शाब्दबो. धरूपकृतिसाध्यत्वप्रकारकाप्तसमयेतेच्छाविषयत्वात्मकाल ज्ञानानन्तरमें वेत्यर्थः । इष्टसाधनत्वादिकमि- ति॥आदिना बलवदनिष्टाननुबन्धित्वपरिप्रहः । अनुमायेति ॥अनुमितिविषयी कृत्यर्थः । तथाच याग: बल, वदनिशाननुबन्धि इष्टसाधनं कृतिमाध्यत्वप्रकारकाप्तसमवेतेच्छाविषयत्वात् कृतिसाध्यत्वप्रकारकमन्मात्रसम- घेतेच्छाविषयमत्कर्तृक भोजनवदित्यनुमानाद्यागादिविशेष्यकवलच द निष्टाननुबन्धीष्टसाधनत्वप्रकारकानुमित्या-- स्मकप्रवर्तकहानं जायत इति भावः ॥ प्रवर्तत इति । यागादिविषयकप्रवृत्तिमान् भवतीत्यर्थः ॥ तदभावा- दिति ॥ कल भक्षणादौ कृतिसाध्यतया आप्तेष्टत्वाभावन तल्लिकवलवदनिष्टाननुबन्धीष्टसाधनत्वविषयकप्र. वर्तकज्ञानाभावादित्यर्थः । ननु वेदस्य नित्यत्वेन वक्तुरभावात् कृतिमाध्यतया आप्तेष्टत्वरूपविध्यर्थाप्रसिद्धधा तक्लिङ्गकनिरुतप्रवर्तकज्ञानानुत्पत्तेः कथं यागादौ प्रवृत्तिरत आह ॥ यस्त्विति ॥ पौरुषेयत्वमिति ॥ पु- रुषप्रणीतत्वमित्यर्थः ॥ विधिरेवेति ॥ मानमित्युत्तरेण संबध्यते ॥ कुमार्या गर्भ इवेति ॥ कुमार्या गर्भ इत्यादिः । तथाच यथा पुरुषसंबन्धं विना गर्भासंभवात् कुमार्या गर्भः पुंयोग मानं श्रुतिकुमारीम- ध्यस्थविधिरेव श्रुतेः पौरुषेयत्वे मानमिति समुदितार्थः। तथाच वेदस्यापौरुषेयत्वस्वीकारे आप्ताभिप्रायरूप- दिनकरीयम्. साधन मत्कृतिसाध्यतया आप्तेनेष्यमाणत्वात् मन्मात्रकृतिसाध्यतयेष्यमाणमद्भोजनवदित्यनुमानमवधे. यम् । तदभावात् आप्तेष्टत्वाभावेन तद्धेतुकेष्टसाधनत्वज्ञानाभावात् । ननु वेदे वक्तुरभावात् कस्येच्छा कि बोधनीयेत्यत आह ॥ यस्थिति । विधिरेवेति ॥वक्तृभिनेरछाया बोधने विधेः सामा