पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Coo कारिकावली [गुणखण्डः कार्यकारणभाव इत्यर्थः ॥ प्रतिकूलमिति ।। दुःखत्वज्ञानादेव सर्वेषां स्वाभाविकद्वेषविषय इ. त्यर्थः ।। १४५ ॥ निर्दुःखत्वे सुखे चेच्छा तज्ज्ञानादेव जायते । इच्छा तु तदुपाये स्यादिष्टोपायत्वधीर्यदि ॥ १४६ ।। इच्छां निरूपयति ॥ निर्दुःखत्व इति ।। इच्छा द्विविधा फलविषयिणी उपायवि- षयिणी च फलं तु सुखं दुःखाभावश्च । तत्र फलेच्छां प्रति फलज्ञानं कारणम् । अत एव पुरुषार्थः सम्भवति यत् ज्ञातं सत्स्ववृत्तितयेष्यते स पुरुषार्थ इति तल्लक्षणात इतरेच्छान-- धीनेच्छाविषयत्वं फलितोऽर्थः । उपायेच्छां प्रतीष्टसाधनताशानं कारणम् ॥ १४६ ॥ प्रभा. साधनसुपुत्रत्यागादायपि सर्वप्राणिनां द्वेषविधयत्वस्य सस्वात्तद्यावर्तनाय द्वेषे अन्यगोचरद्वेषानधीनत्वाविंशे- षणम् । तथाच तादृश द्वेषविषयतावच्छेदकत्वकूटविशिष्टधर्मवत्त्वं लक्ष्यतावच्छेदकं तद्विशिष्टं च दुःखस्वरूप- मिति भावः । अत्र दुःखं द्विविधं वैशेषिकं मनोरथं चेति आयं कष्टकसंयोगादिनिमित्तक अधर्मस्तु त- सम्पादनद्वारा उपयुज्यते द्वितीयं व्याघ्रादिज्ञानजन्यं अधर्मस्तु तत्सम्पादनद्वारा उपयुज्यत इति बोध्यम् । अधर्मजन्यं दुःखं स्यादिति मूलेन दुःखस्याधर्मजन्यत्वं प्रतिपादितं तत्र हेतुमाह ॥ मुक्तावळ्यां अधर्म- त्वेनेति ॥ प्रतिकूलं सचेतसामिति मूलस्य उक्तार्थमेवाह ॥ सर्वेपामिति ॥ सर्वप्राणिनामित्यर्थः ॥ स्वा. भाविकेति ॥ अन्यगोचरद्वेषानधीना इत्यर्थः । प्राञ्चन्तु अदृष्टस्य मुख्य प्रयोजनं भोग एवं सुखदुःखे चा. वान्तरप्रयोजने अन्यथा मुखदुःखे जनयित्वैव धर्माधर्मयोनाशात् भोगानुत्पत्तिप्रसङ्गात् भोगस्य पुरुषार्थ स्वाभाव प्रसाच अत एव न्यायवार्तिकटीकायां सुखदुःखबुद्धथुम्पादे च धर्माधर्मयोरुपयोगः नतु मुखदुःखोत्पाद इति वाचस्पतिमिश्रोक्तिस्सङ्गच्छत इत्याहुः। तन्न भोगस्य मुख्य प्रयोजनत्वेऽपि तत्रादृष्टस्य प्र. योजकत्वस्वीकारात् न भोगकाले तसत्त्वस्यावश्यकता अन्यथा गङ्गास्नानादेर्मुक्तरेख मुख्य प्रयोजनतया मु. क्तिकाले गङ्गास्नानादरभावेन मुक्तेरनुत्पत्त्यापत्तेः वाचस्पतिमिश्रप्रन्थोऽपि अदृष्टस्य भोगप्रयोजकत्वाभिप्राय क एव तम्मान्न भोगानुपपत्तिः नवा भोगस्य अपुरुषार्थत्वापत्तिरिति ॥ १४५ ।। मूले निर्दु:खत्वे सुखे चेच्छा इति ॥ अहमिच्छामीति प्रत्यक्षसिद्धच्छात्वज्ञातिमत्त्वमिच्छासामान्य- स्य लक्षणम् । भगवदिच्छायामपि तादृशजातिः स्वीकियते तत्रापि इच्छापदप्रयोगात् अतो न तत्राव्याप्तिः । मा इच्छा द्विविधा फलेच्छा उपायेच्छेति तत्र फलेच्छास्वरूपं तत्कारणं चादावाह ॥ नितुःखत्व इ. ति ॥ अत्र फलविशेष्य केच्यात्वं पुरुषार्थमिच्छामीति प्रतीति साक्षिके रछात्वव्याप्यजातिविशेषवत्त्वं वा फलेच्छासामान्यलक्षणं बोध्यम् । उपायेच्छास्वरूपं तत्कारणं चाह ॥ इच्छा तु तदुपाय इति ॥ अत्रोपा. यविशेष्यकेच्छात्वं उपायमिच्छामीति प्रतीनिसाक्षिकेच्छान्वव्याप्यजातिविशेषवत्त्वं वा उपायेच्छासामान्य- लक्षणमिति बोध्यम् । फलेच्छादिशब्दार्थ निर्वक्ति । मुक्तावळ्यां फलविषयिणीति ॥ फलस्वरूपमा- ह ॥ फलं सुखमित्यादि ॥ अत एवेति ॥ मुखदुःखाभावयोः स्वज्ञानमात्राधीनेच्छाविषयत्वादेवेत्यर्थः॥ पुरुषार्थसंभवतीति । एवमुभयात्मकं फलं पुरुषार्थो भवतीत्यर्थः । पुरुषार्थस्वरूपमाह ॥ यदिति ॥ नातं सदेवेत्यर्थः ॥ फलितार्थ इति ॥ तादृशेच्छाविषयत्वमेव पुरुषार्थमिति फलिनार्थः । इच्छा तु त. दुपाये स्यादित्यादिकारिकायाः प्राकमधृत्वा अथमाह ।। उपायेच्छा प्रतीति ॥ १४६ ।। दिनकरीयम्. तत्र तयोर्मध्ये ॥ अत एव फलज्ञानस्य फलेच्छां प्रति हेतुत्वादेव ॥ पुरुषार्थः सम्भवतीति ॥ सुख दुःखाभावश्च पुरुषार्थः सम्भवतीत्यर्थः। ननु यज्ज्ञातमित्यादेः स्वविषयकशान जन्येच्छाविषयत्वमर्थः । तथा चोपायेऽतिव्याप्तिस्तस्यापि स्वविषयके साधनताझानजन्येच्छाविषयत्वादत आह । इतरेच्छति ॥ १४६ ॥