पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९८ कारिकावली गुणखण्ड: -- न्तरं के चानुपलम्भस्याज्ञातस्य हेतुत्वे ज्ञानाकरणत्वात् प्रत्यक्षं ज्ञातस्य हेतुस्बे तु तत्रा- प्यनुपलम्भान्तरापेक्षेत्यनवस्था । एवं चेष्टापि न प्रमाणान्तरं तस्याः सङ्केतप्राहकशब्द- स्मारकल्वेन लिप्यादिसमशीलत्वाच्छन्द एवान्तर्भवति तस्मात् यदितु व्याप्त्यादिप्रहस्त- व'नुमितिरेवेति । १४५ ॥ प्रभा. व्यापकतावच्छेदकानहकान्यतरत्वेन तदनवच्छेद करात्रिभोजनत्वत्वेन वा विधेयताश्रयामित्यर्थः । स्वतन्त्रास्तु रात्रिभोजनाभावदिवाभुजानत्वविशिष्टपीनत्वाभावयोः मासोपवासिनि तापसे सहचारज्ञानाधीनरात्रिभोक्तृत्वा- भावव्यापकीभूलाभावप्रतियोगित्वदिवाऽभुजानत्वविशिष्टपीन चमिति व्यतिरेकव्याप्तिप्रकारकनिश्चयोत्तर कालीननिरुक्तव्याप्तिविशिष्टदिवाऽभुधानत्वविशिष्टपीनत्यवान् देवदत्त इति मानसपरामशात् देवदत्तो रात्री भुक्के दिवाऽभुजानत्वे सति पीनत्वात यो यः रात्रिभोक्तत्वाभाववान् स दिवा अभुञानस्वे सति पीनत्वाभाववान् यथा मासोपवासी तापम इति व्यानरोकिन्यायाधीनशाब्दबोधोत्तरकालीन निरुतपरामर्शादा रात्रिभोक्तावत्व रूपव्यापकतावच्छेदकरूपणैव रात्रिभोक्तवानामेतिम्संभवतीति न दिवाभोक्तववाधज्ञानापे. क्षेत्याहुः । इदमुपलक्षणम् अध्याहतापधेहीत्यादि क्रियापदवत्वाभाव द्वारकर्मकपिधान'नुकूलकृतिप्रकारकबोधे- च्छया उच्चरितत्वाभावयो। घटपदादौ सहचारप्रहात्तरं जायमानाध्याहृतपिधातिक्रियापदवत्वाभावव्यापकी. भूताभावप्रतियोगिहार कर्मकपिधानानुकूलकृतिप्रकारकबोधेच्छया उच्चरितत्वमिति व्याप्तिान जन्यतादृशव्या- प्तिविशिष्टतादृश हेतु महारमिति परामर्शात् द्वारपदं अध्याहृतपिधेहाति क्रियापदवत् द्वारकर्मकपिधानानु कूलकृतिबोधेच्छया उच्चरितत्वात् यद्यनिरुक्तसाध्याभाववत्तन्निरुक्तहेन्वभाववत् यथा घटपटावित्यादिव्यति रेकन्यायाधीनशाब्दबोधोत्तरकालीननिरुक्तमानसपरामर्शाद्वा द्वारपदं अध्याहृतपिधेहि क्रियापदवदित्यनुमिति. संभवात् नार्थापत्ति: प्रमाणान्तरामित्यपि बोध्यम् । अर्धापत्तस्तु नैवेह पृथक्प्रामाण्यमिष्यत इति भूलस्थानुक्तस. मुच्चयार्थकतुशब्देन वोधितं चेष्टाया: पृथक्प्रमाण वं व्यवस्थापयितुं बोधितार्थमनुबदति ॥ चेष्टापीति ।। वष्टापात्यापनापत्तिपरिग्रहः तथाचार्धापत्तिः यथा पृथकप्रमाणं न भवति तथा चेष्टापीत्यर्थः फलितः । अत्र मानाभावादिति हेतुः पूरणीयः । ननु तर्हि घटः एको द्वौ वेति सन्दिहानस्य चेष्टाविशेषेण कथमेकत्वाद्यनुभव: तदानी घटादिना चक्षुस्सन्निकर्षादिरूपप्रत्यक्षादिप्रमाणाभावादित्याशङ्का कुप्तप्रमाणसत्त्वप्रतिपादनेन परिह- रात ॥ तस्या इति ॥ चेष्टाया इत्यर्थः ॥ सङ्केतग्राहकशब्दस्मारकत्वेनेति ॥ अभिमतार्थकशब्द- स्मारकत्वेनेत्यर्थः । लिप्यादिसमशीलत्वादिति ॥ लिप्यादितुल्यत्वादित्यर्थः । आदिना पुरुषविशेष - परिप्रहः ॥ शब्द एवान्तर्भवतीति ॥ शब्दप्रमाणमुत्पाद्य विश्राम्यतीत्यर्थः । तथाच यथा लिपिदर्शन- स्य शब्दस्मृति द्वारा शाब्दबोधप्रयोजकत्वं यथा वा पुरुषाचशेषदर्शनस्य तदुच्चरितपुरुषवाक्यस्मृतिद्वारा शा- उदबोधप्रयोजकत्वं तथा चेष्टाविशेषदर्शनस्यापि शब्दावशेषस्मृतिद्वारा शाब्दबोधप्रयोजकत्वं नतु प्रमाणत्वमिति भावः । उपसंहरति ।। तस्मादिति ॥ उकरीत्या निरुक्तस्थले क्लुप्तप्रमाणसंभवादित्यर्थः । यदीत्युत्तरवृत्य नुक- समुच्चायकवार्थकतुशब्देनानामतिरेवेत्युनरं योजितेन शाब्दबोधसमुच्चीयते ध्याप्तिाह इत्यत्रादिपदेन शब्द. परिप्रहः तथाच यत्र व्याप्तिप्रहस्तत्रानु मातरेव यत्र शब्दग्रहः तत्र शाब्दबोध एवेत्यर्थलाभेनाथांपत्तिस्थले व्याप्तिपहरूपानुमानेनानुमितिसंभवात् अनुमानस्यैव प्रमाणत्वं अर्थापत्तेस्तु प्रयोजकत्वं एवं चेष्टास्थले लिप्यादि- प्रहस्थल इव शब्दस्मृतिसंभवेन शाब्दबोधोत्पत्या शब्दस्यैव प्रमाणत्वं चेष्टायाः प्रयोजकत्वमिति भावः ॥१४॥ दिनकरीयम्. मयूरः पर्वतेतस्मिन् न नृत्यति नृत्यति चेत्यस्य सङ्ग्रहः । नन्वेतद्वाक्यान्मयूरः पर्वते नृत्यतीति शानमुत्पद्यते न त्वेतद्वयतिरोकिणः सम्भवति पर्वतनत्यस्य साध्यस्याप्रसिद्धी व्यतिरेकव्याप्त्यनिरूपणादिति कथं नार्थाप. तिः प्रमाणान्तरामिति चन्छ मयूग्नृत्वं पर्वताधिकरणकं पर्वतेतर'नधिकरणत्वे सति साधिकरणत्वात् पर्वत स्ववादिस्यन्वयध्यतिरकिणैव पर्वताधिकरणकमयूर नृत्यज्ञानसम्भवात् ॥ १४४ ॥