पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । - भावप्रतियोगित्वमित्यर्थः । अत्रेद बोध्यम् । यत्सम्बन्धेन यद्वच्छिन्नं प्रति येन सम्बन्धेन प्रभा. च्छिन्ननिश्चयीय प्रकारतानिरूपितविशेष्यताश्रयस्य ह्रदादेवेत्यर्थः । सत्त्वादिति ॥ प्रसिद्धत्वेन निरुक्तलक्षणस- स्वादित्यर्थः ॥ तत्रेति ॥ लिङ्गत्रयमध्य इत्यर्थः ॥ हि हेतौ। साध्यतावच्छेदकरूपेण निर्णयाभावादिति यावत् ॥ व्यतिरेकिणीति ॥ व्यतिरोकिणि हेतौ सतीत्यर्थः । व्यतिरेकिलिङ्गानुमिताविति यावत् ॥ व्यतिरेकन्या- प्तिज्ञानमिति ॥ तादृशज्ञानमेवेत्यर्थः ॥ तदर्थमिलि || तादृशज्ञानायेत्यर्थः ॥ व्यतिरेकव्याप्ति नि र्वतीति ॥ तादृशव्याप्ति निरूपयतीत्यर्थः । मुले साध्याभावव्यापकत्वमिति ॥ साध्यमभावो यत्रेति व्युत्पत्त्या साध्यवद्भेदः हेत्वभावस्येत्यत्रापि बहुव्रीह्याश्रयेण हेतुमद्भेदश्च लभ्यते । षष्ठीसमासाश्रयणे कपिसं. योगी एतत्त्वादित्यादावव्याप्त्यापतेः एतत्त्ववान् कपिसंयोगादिन्यादावतिव्याप्तच वारणाय साध्याभावे है- स्वभावे च प्रतियोगवैयधिकरण्यस्य निवेशनीयतया गौरवापतेः । एवंच तादृशव्यापकत्वाश्रयप्रतियोगित्वं व्याप्तिरिति फलितम् । नातो व्याप्तहेतुनिष्ठत्वलाभः । ननु ब्यापकत्वस्य तद्वनिष्ठात्यन्ताभावाप्रतियोगित्व-- रूपत्वे तादृशान्योन्याभावप्रतियोगितानवच्छेदकरूपत्वे वा तद्वत्वं साध्यवत्तानविरोधितानियामकसंबन्धेन वाच्यं दैशिकविशेषणतया तद्वत्त्वनिवेशे द्रव्यं भिन्नं गुणत्वादित्यादौ साध्यवरेदस्य दव्यत्वात्मकस्य दैशि- कविशेषणतया अधिकरणाप्रसिद्ध्या ताटेतव्यापकत्वस्याप्रसिद्धत्वात् अव्याप्त्यापत्तेः । नच तद्वनिष्ठत्वं ये- नकेनचित्संबन्धेन धूमवद्भेदाधिकरणतप्तायःपिण्डादावापे कालिकसंवन्धेन वह्नयादिमद्भेदसत्त्वात् धूमवा- न वहेरित्यादावतिव्याप्त्यापत्तेश्च । नापि हेतुतावच्छेदकसंबन्धेन सत्तावान् जातेरित्यादौ सत्तावद्भेदाधिक - रणसामान्यादौ हेतुतावच्छेदकसंबन्धेन समवायेन वृत्तेरप्रसिद्धया अव्याप्त्यापत्तेः तस्माद्यापकत्वं दुर्वचाम - ति चेन्न तद्वनिष्ठाभावप्रतियोग्यधिकरणतानिरूपकत्वरूपव्यापकत्वस्यैव तल्लक्षणघटकत्वात् । अत्र तनिष्टत्वं दैशिकविशेषणतया बोध्यं नातः कालिकादिसंवन्धमादाय उक्तस्थलेऽतिव्याप्तिः । नवा सत्तासाध्यकजाति- रूपसद्धेतौ व्यापकत्वाप्रसिद्धिः अधिकरणत्वाभावत्वस्यैव ब्यापकत्वघटकत्वात् । न चैवमपि वह्निमान् धूमादित्या. दो वह्निमद्भेदाधिकरणहदादायपि धूमवर्द्रदाधिकरणत्वस्व विशिष्टाभावोभयाभाव तद्यक्तित्वावच्छिन्नाभावस- स्वाद्यापकत्वाप्रसिद्धिः तदवस्थेति वाच्यं तादृशाभावप्रतियोगितानवच्छेदकं यनिरूपिताधिकरणतात्वं तत्त्वस्य विवक्षितत्वात् । नच तथापि धूमवान वह्नरित्यादौ वह्निमद्भेदनिष्ठप्रमेयत्वाचवच्छिन्नाधेयतानिरूपिताधिकरणत्व- स्य धूमबद्भेदव्यापकतावच्छेदकतया तत्रातिव्याप्तिरिति वाच्यम् साध्यवद्धेदव्यापकतावच्छेदकहेतुत्तावच्छेद- कसंबन्धावच्छिन्नयद्धर्मावच्छिन्नावच्छेदकताकप्रतियोगिताकभेदत्वावच्छिन्ननिरूपिताधिकरणतःत्वं तद्धर्मव- स्वस्य विवक्षितत्वात् । अत्रापि साध्यवद्भिन्नत्वं साध्यतावच्छेदकसंबन्धावच्छिन्न साध्यतावच्छेदकावच्छिन्ना वच्छेदकताकप्रतियोगिताकमेदवत्त्वरूपमेव ग्राह्यं व्यापकताघटकप्रतियोगिता स्वरूपसंबन्धावच्छिना प्रा- झा। अस्मिन् लक्षणे संबन्धविशेषधर्मविशेषनिवेशप्रयोजनं स्वयमूह्यम् । तथाच निरुक्तसाध्यवद्भेदव्यापकता. वच्छेदकहेतुतावच्छेद कसंबन्धावच्छिन्नस्वावच्छिन्नावच्छेदकताकप्रतियोगिताकभेदत्वावच्छिन्ननिरूपिताधिकर- णतात्व कधर्मवत्त्वरूपं व्यतिरेकव्याप्यत्वं फलितमिति न कोऽपि दोषः । विश्वनाथपञ्चाननस्याप्यत्रैव निर्भर इति प्रतिभाति । यथाश्रुतमूलप्रतिपाद्यहेत्वभावनिष्ठसाध्याभावव्यापकत्वरूपव्यतिोकव्याप्तेः स्वरूपसंबन्धेन हेतुनिष्ठत्वाभावादसङ्गतिः अतस्संवन्धान्तरेण हेतुनिष्ठत्वमुपपादयति ॥ मुक्तावळ्यां साध्याभावेति ॥ तथाच स्वाश्रयप्रतियोगित्वसंबन्धेन तादृशव्यापकत्वरूपव्याप्तेहेतुनिष्ठत्वात् नोकदोषप्रसक्ति: साध्याभावे हेत्वभावे च प्रतियोगिवैयधिकरण्याविशेषणदानाच नोक्तातिव्याप्त्यव्याप्त्योः प्रसक्तिरित्याशयः । ननु व्य- तिरेकव्याप्तेरेतादृशत्वे वह्निमान् धूमादित्यादौ साध्याभावव्यापकीभूतधूमाभावादेः द्वित्वाद्यवच्छिन्नामावस्य कालिकादिसंबन्धावच्छिन्नप्रतियोगिताकाभावस्य प्रतियोगित्वादतिव्याप्तिः नच तादृशाभावोऽपि लक्ष्य एवे. ति वाच्यं तथासति तद्वत्ताज्ञानादनुमित्यापत्ते; नचेष्टापत्तिः व्यभिचारज्ञानकालीनतादृशपरामर्शस्यानुमितिहे. तुताया अप्रामाणिकत्वात् एवं निरुक्तपरामशाद्वढेरेव वयभावनिष्ठद्वित्वाद्यवच्छिन्नस्य तनिष्ठकालिकादिसंबन्धा- वच्छिन्नाभावस्य च सिद्धिप्रसङ्ग इत्यत आह ॥ अत्रेदं बोध्यमिति ॥ निरुक्तपरामर्शविषयीभूतं तज्जन्य -