पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७६ कारिकावली [गुणखण्ड नसाधनस्याव्यापकं च । एवं ध्वसो विनाशी जन्यत्वादित्यत्र जन्यत्वावच्छिन्नसाध्यव्यापक भावत्वं ।सद्धेतौ त्वेतादृशधर्मो नास्ति ! यद्वच्छिन्नस्य साध्यस्य व्यापकं तदवच्छिन्नस्य सा- धनस्य चाव्यापकं किञ्चित् स्यात् व्यभिचारिणि तु उपाध्यधिकरणं यत्साध्याधिकरणं य- । प्रभा. त्वानाश्रयतया स्वावच्छिन्नब्यापकताग्राहकानुकूलतत्वेऽपि साध्यतावच्छेदकीभूतशुद्धविषयत्तासंबन्धावच्छिन्न प्रत्यक्षनिष्टव्या प्यतानिरूपितोद्भूतरूपनिष्ठनिरुक्तव्यापकताग्राहकानुकूलतकत्वे प्रमाणाभावात् । अन्यथा धूमवह्नयोः संयोगसं- वन्धघटित कार्यकारणभावप्रहस्य समवाय संबन्धावच्छिन्नधूमनिष्ठव्याप्यतानिरूपितवह्नित्वावच्छिन्नब्यापकता- प्राहकानुकूलतर्कत्वापत्तिः। नच संबन्धस्यैव साध्यतावच्छेदकसंबन्धत्वस्वीकारात् नोक्तदोषप्रसांकरिति वाच्यम् तशा सति तादृशसंवन्धेन केवल साध्यं प्रत्येवोद्भूतरूपस्य व्यापकत्वसंभवात् अव्याप्त्यप्रसत्या प्रत्यक्षस्यात्म - नि सत्त्वात् तत्रोद्भूतरूपाभावादिति उद्धृतरूपेऽव्याप्तिप्रतिपादकपूर्वपक्षग्रन्थस्योन्मत्तप्रलपितत्वापत्तेः । तत्र तेन संबन्धेन साध्यासत्त्वात् तस्मात् उक्तरीत्या उद्भूतपदस्य तादृशप्रयोजनपरत्ववर्णनमयुक्तमेव । अस्मद्गुरु- चरणास्तु प्राचीनाभिमतोपाधिपदयोगरूढ्यर्थतावच्छेद कसाध्यसमव्याप्तत्वघटितोपाधित्वाश्रय प्रदर्शनायोद्भुतपदं केवलरूपस्य पक्षधर्मावच्छिन्नसाध्यव्यापकले तादृशप्रत्यक्षशून्य चक्षुरादावपि केवलरूपसत्त्वेन तस्य तादृशसा. ध्यव्यापकत्वाभावातूनच तादृश प्रत्यक्षशून्यपरमाणुपु उद्भतरूपसत्त्वात् तस्यापि साध्यव्याप्यत्वमिति वाच्यं प्रकृते उद्भूतपदस्य प्रत्यक्षविषयार्थकत्वेन प्रत्यक्षविषयरूपस्य पक्षधर्मावच्छिन्न साध्यसमव्याप्तत्वस्याव्या. हतत्वात् नच प्रथमानुमानस्थलीयशाकपाक जत्वस्यानिमानुमानस्थलीयाभावत्वस्य च प्राचीनाभिमतोपाधि- वायुः प्रत्यक्ष इत्यादिमाध्यमिकानुमानस्थलीयोपाधिमात्रस्य तदभिमतोपाधित्वप्रदर्शन- फलकतया उद्भूतपदसार्थक्यवर्णनं सन्दर्भविरुद्धमिति वाच्यम् । उपाधेः यद्धर्मावच्छिन्नसाध्यव्याप- कत्वं तद्धर्मावच्छिन्नोपाधेरेव साध्यव्याप्यत्वस्य तन्मतसिद्धतया मित्रातनयत्वावच्छिन्नझ्यामत्वव्याप-- कशाकपाकजत्वस्य मित्रातनयत्वविशिष्टशाकपाकजत्वेन रूपेण केवलसाध्यव्यापकत्वस्याध्यक्षतत्वात् एवं जन्यत्वावच्छिन्नानित्यत्वव्यापकभावत्वस्य जन्यत्वविशिष्टभावत्वलेन विनाशित्वव्याप्यत्वसत्त्वात् तस्मात् प्रकृते बहिव्यत्वावच्छिन्न प्रत्यक्षत्वाव्यापकोद्भूतरूपत्वस्य केवलरूपत्वेन बहिव्यत्वविशिष्टरूपत्वेन वा प्र- त्यक्षव्याप्यत्वाभावात् अत्रापि प्राचीनाभिमतोपाधिप्रदर्शनफलकतया उद्भूतपदसार्थक्येन सन्दर्भविरोधप्रस- किरिति व्याचकः । अत्र बहिर्दव्यत्वावच्छिन्न प्रत्यक्षाधिकरणेषु यावत्सु रूपसिद्धावेव रूपे तादृशप्रत्यक्षत्व- व्यापकतानिश्चयो भवतीति तादृशयावत्सु रूपसत्त्वे प्रत्यक्षमेव प्रमाणमिति बोधयितुं ताशयावदधिकर- णविशेष्यकप्रत्यक्षप्रमाणकरणकप्रभितिविषयार्थकं उद्भूतपदमुपात्तमित्येव सारमिति प्रतिभाति किञ्चिद्धर्माव- च्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकत्वरूपोपाधित्वस्वीकारपक्षे सद्धेतुमात्रे प्रसत्कातिव्याप्तिः अस्मिन्पक्षे नास्तीत्याह ॥ सद्धेतौ विति ॥ अवधारणार्थकतु शब्दः नास्तीत्युत्तरं योज्यः ॥ एतादृशधर्म इति ॥ अ- नुपदं वक्ष्यमाणधर्भ इत्यर्थः ॥ नास्तीति । अप्रसिद्ध एवेत्यर्थः तादृशधर्ममाह ॥ यदवच्छेदेनेति ॥ यद्धर्मविशिष्टवयादिरूप साध्यनिरूपितनिरुकव्यापकताविशिष्टमित्यर्थः इदंतु अप्रिमकिञ्चित्पदार्थवस्तुविशेषणं तदवच्छिन्नसाधनस्येत्यादितद्धर्मविशिष्टधूमादिरूपसाधननिरूपित्तनिरुक्ताव्यापकताविशिष्टमित्यर्थः एतस्य भवेदित्यधर्कःस्यादित्यनेनान्वयः तथाच सहे तुस्थले तधर्मावच्छिन्नसाध्यव्यापकत्वानयमात्रस्य तत्तद्धर्माद. च्छिन्नसाध्याच्यापकत्वाभावात् तत्र तादृशोपाधिरसिद्ध एवेति भावः सौलभ्याय व्यभिचारिमात्रे उपाधित्व. घटकानुगततादृशधर्ममाह ॥ व्यभिचारिणीति ॥ व्यभिचारमात्र इत्यर्थः । अत्र वायुः प्रत्यक्षः द्रव्य- दिनकरीयम् . माप्तिरिति भावः । अव्याप्तीः परिहरति ॥ मित्रातनयत्वेत्यादिना ॥ व्यभिचारिण वित्यादि । वायुः प्रत्यक्षो द्रव्यत्वादित्यादौ प्रत्यक्षत्वरूपसाध्याधिकरणमात्मा उद्भूतरूपात्मकोपाधिशून्यं साध्यव्याभिचा- राधिकरणं गगनं तदन्यतरत्वावच्छिन्नसाध्यव्यापकत्वस्योद्भूतरूपेऽभावादुक्तमुपाध्यधिकरणामिति । उद्धृतरू.