पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्ड: तभेदाग्रहस्य हेतुत्वात् । सत्यरजतस्थले तु विशिष्टज्ञानस्य सत्त्वात्तदेव कारणं अस्तु वा तत्रापि रजतभेदाग्रहः स एव कारणमिति : नचान्यथाख्यातिः सम्भवति रजतप्रत्यक्षका- प्रभा. भेदाग्रहसत्त्वेन तन्त्र रजतार्थिप्रवृत्तौ बाधकाभाव इति भावः ॥ पुरोवृत्तिनीति ॥ इदरवेन ज्ञायमानलिङ्गात्मक पूर्ववृत्तिनीत्यर्थः ॥ इदं रजतामिति विशिष्टज्ञानात्मकोपस्थितिविषयरजतभेदाप्रहस्य रजतात्मकपुरोव- त्तिनि सत्त्वाद्र इव रजतेऽपि विसंवादिप्रवृत्तिवारणाय स्वतन्त्रोपस्थितेति पुरोवृत्तिनिष्ठविषयत्वानिरूपितवर्त- मनिग्रहविषयताश्रय इत्यर्थः । तथाच सत्यरजतस्थले रजतम्य पुरोवृत्तिनिष्ठविषयतानिरूपितज्ञानीयाविषयता. श्रयतया निरुक्तविषयताश्रयत्वाभावेन तादृशोपस्थितरजतभेदाग्रहस्य सुतरामसत्त्वेन कारणाभावात् रजते न विसंवादिप्रवृत्त्यापत्तिरिति भावः । अत्र पुरे।वृत्तिनीत्यत्र सप्तम्याः भेदग्रहाभावान्वयिवृत्तित्वार्थकतया स्व- तन्त्रपदस्य पुरोवृत्तिनिष्ठविषयत्वानिरूपितविषयताशाल्यर्थकतमा उपस्थितपदस्य पुरोवृत्त्युपस्थितिरजतोप- स्थित्युभयपरतया तदुत्तरश्रूयमाणकप्रत्ययस्य भेदग्रहाभावान्वयितत्कालावच्छिन्न कात्मवृत्तित्वरूपवैशिष्टयला क्षणिकतया रजतभेदाग्रहशब्दस्य रजतभेद प्रकारकज्ञानत्वावच्छिन्नविशेष्यतासंवन्धावच्छिन्न प्रतियोगिताक भावार्थकतया च पुरोवृत्तिविशेष्य करजतभेद प्रकारकज्ञान प्रतिबन्धकदोषप्रयोज्यः पुरोवृत्तिनिष्ठैफकालावच्छिन्नै. कात्मवृत्तित्वसंवन्धेन पुरोवृत्तिनिष्ठाविषयत्वानरूपितविषयता शालिपुरोवृत्त्युपस्थितिरजतोपस्थित्युभयवि- शिष्टश्च यः रजतभेदप्रकारकज्ञानत्वावच्छिन्नविशेष्यतासंबन्धावच्छिन्न प्रतियोगिताकाभावः सः रजतार्थि- विसंवादिप्रवृत्तः कारणमित्यों लभ्यते तत्र विषयनिष्ठप्रत्यासत्या कार्यकारणभावबोधनाय पुरोवृत्ति- नीत्युक्तम् । रजतभेदविशिष्टपुरोवृत्ती रजतभेदप्रहाभावस्य सत्त्वप्रतिपादनाय दोषाधीनस्येत्युक्तं नतु पुरो- व्यक्तिवृत्तित्वदोषाधीनत्वयोरपि कारणतावच्छेदकप्रवेशः गौरवात्प्रयोजनाभावाच्च एवंच विशेष्यतासंबन्धेन रजतभिन्नविशेष्यकरजतत्वप्रकारकप्रवृत्ति प्राप्त रजतावृत्तिविशेष्यतासंबन्धेन रजतत्व प्रकारकप्रवृत्ति प्रति वा एककालावच्छिन्नैकात्मवृत्तित्वसवन्धेन पुत्तनिष्ठविषयत्वानिरूपितविषयताशालिपुरोवृत्युपस्थितिरजतो. पस्थित्युभयविशिष्टरजतभेदप्रकारकज्ञानत्वावच्छिन्नविशष्यता संबन्धावच्छिन्न प्रतियोगिताकाभावस्वावच्छिन्नम्य दैशिकविशेषणतासंबन्धेन हेतुत्वमिति फलितमतो न कोऽपि दोषः उक्तार्थ एवं विश्वनाथपनाननस्य निर्भर इति प्रतिभाति ॥ सत्यरजतस्थले त्विति ॥ रजतगोचररजतार्थिप्रवृत्तौ स्वित्यर्थः तु. शब्दः कार्यकारणभावान्तरद्योतनाय । विशिष्टज्ञानसत्त्वादिति ॥ पुरोवृत्तिविशेष्यकतादात्म्य. संबन्धेन रजतप्रकारकज्ञानस्य समवायेन रजतत्व प्रकार कज्ञानस्य वा प्रसिद्धत्वादियर्थः । तदेवेति ॥ ता. दृशविशिष्टज्ञानमेवेत्यर्थः एवकारेण भेदाग्रहहेतुत्वव्यवच्छेदः तथाच विशेष्यतासंबन्धेन रजत विशेष्यकरजत- स्वप्रकारकप्रवृत्ति प्रति रजतनिष्ठविशेष्यतासंबन्धेन रजतत्वप्रकारकप्रवृत्ति प्रति वा विशेष्यतासंबन्धेन लघुभू- तरजत त्वग्रकारकज्ञानवेन हेतुत्वस्वीकारान्न काप्य नुपपत्तिरिति भावः । नन्वेवमपि विसंवादिप्रवृत्त्यादिभेदेन कार्यकारणभावद्वयकल्पनापयुक्तगौरवं तव दुर्वामित्याशङ्का उभयसाधारणककार्यकारणभावप्रदर्शनेन परिह. रति ॥ अस्तु वेति ॥ वाशब्दः कल्पान्तरद्योतनाय तत्रापि रजतगोचररजतार्थिप्रवृत्तावपीत्यर्थः अपिना दिनकरीयम्. द्विसंवादिप्रत्यापत्तिवारणाय दोषाधीनस्ोत्युक्तम् । न्यायनये दोपाधीनो यो रजतभ्रमस्तत्स्थानाभिषिक्तरज. तभेदाग्रह स्यैव तन्मते दोषाधीनतया रजते रजतभेदामहस्य दोषानधीनत्वादिति भावः । यल रहगोचरमे. तद्रजतवद्भूतलमिति ज्ञानं तत्र विसंवादितादृशप्रवृत्तिवारणाय स्वतन्त्रोपस्थितेति रजताविशेषणं । मुख्यविशे- ध्यतयोपस्थितत्वं तदर्थः । वस्तुतो रङ्गगोचरादेतद्रजतवद्भूनलमिति ज्ञानादपि प्रवृत्तिरिष्टैवेति स्वतन्त्रोपस्थि. तत्वं न देयमिति ध्येयम् ॥ हेतुत्वादिति ॥ न्यायनयेऽपादं रजतमिति भ्रमे हेतुतया रजतभेदाप्रहस्य त. नावश्यकतया तस्यैव हेतुत्वं युक्तं तद्धतेरिति न्यायादिति भावः । कार्यकारणभावद्वयकल्पनापेक्षया लाघ- वादाह । अस्तु वेति । तत्रापि सत्यरजतगोचरप्रवृत्तावपि । अपिना रङ्गगोचरप्रवृत्तिपरिग्रहः ॥ रज तभेदाग्रहः रजतभेदासंसर्गमहाभावः । यथाश्रुते रजते नेदं रजतमिति अहेऽपि प्रवृत्त्यापत्तेः प्राभाकरम.