पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्ड: विषयनिरूप्यं हि ज्ञानमतो ज्ञानवित्तिवेद्यो विषयः तन्मतं दूषयति ॥ न स्वतोग्राह्यमि- प्रभा. मीत्यनुव्यसाय : तादृश प्रवृत्त्युत्तरं शुक्तयादिलाभे शुक्ति रजतलाया जानामीत्यनुव्यवसायश्च भवति तादृशानु- व्यवसाययोः प्रमावाप्रमावविषयकत्वेऽपि पुरोवृत्तिविशेष्यकरजतत्यप्रकारकज्ञानगो पर प्रवृत्तिपूर्वकालीनइदर- जतंजानामीत्य नुव्यवसायस्य व्यवसायविषयरजतत्वादिविषयकत्वेऽपि तद्वद्विशेष्यकत्वादिघाटेतप्रमावविषय. कत्वे मानाभाव इति चेन्न । प्रथमानुव्यवसायस्यापि प्रत्यक्षप्रमाणेनैव निरुक्तप्रामाण्याविषयकत्व संभवात त- थाहि निरुक्तप्राथमिकानुव्यवसाये सनस्सयुक्तसमवायेन ज्ञानस्येव मनस्संयुक्तसमवेतविशेषणतया प्रकारतानि- रूपितविशेष्यतानिरूपकत्वस्य प्रकारतानिरूपकत्वावच्छिन्नविशेष्यतानिरूपकत्वात्य वा ज्ञानं व्यवसायरूपज्ञान. लक्षणासन्निकर्षवशात् प्रकारतायामागतासंबन्धेन रजतत्वस्य विशेष्यतायां तेनैव संबन्धेन रजतत्वाश्रयस्य च भानं संभवति । एवं च प्राथमिकानुव्यवसायस्यापि व्यवसायांशे रजतत्वनिष्ठप्रकारतानिरूपितरजतत्वान शनिम्नविशेष्यतानिरूपकत्वरूपाप्रामाण्यावगाहित्वात् रजतत्वनिष्ठप्रकारतानिरूपकत्वावच्छिन्नरजतत्वाश्रयानिष्ठा विशेष्यतानिरूपकत्वरूपाप्रामाण्यावगाहियाद्वा तन्मते निरुतप्रामाण्य न प्राथमिकानुव्यवसायविषयत्व. हानिः । तथाच स्वाश्रयविषयक प्रत्यक्षजनकसामग्रीत्वव्यापकस्वग्राहक सामग्रीत्वकत्वं तादृशप्रत्यक्षत्वव्यापक- विषयतानिरूपकत्वं वा मिश्रमतसिद्धनिळितस्वतस्त्वमिति हृदयम् । अम्मद्गुरुचरणास्तु यथा ज्ञान प्रत्यक्षेण प्रामाण्यं गृह्यते तथा ज्ञानानुमित्या इदं ज्ञानं प्रति वाक्यजन्य बोधनापि प्रामाण्यं गृह्यत इति अनुमित्या- देः परित्यागे मानाभावात् व्याप्यकोटी स्वाश्रयमहत्वेनैव निवेश उचितः नच जानामीत्यादिवाक्यजन्य- बोपस्य रजतविशेष्यकर जतत्व प्रकारकज्ञाननिष्ठतद्यक्तित्वावच्छिन्न विशेष्य काप्रामाण्यप्रकारकइदंज्ञानमप्रति भ्रमस्य च स्वाधय महत्वात् तत्र विषयकत्वरूपव्यापकाभावात् स्वतस्त्वम इति वाच्यम् । भट्टम- तोक्तरीत्या स्वाश्रयनिष्ठसविशेष्यकत्वादिविषयकज्ञानजनकस्वाश्रयविशेष्यकाप्रामाण्यादिप्रकारकभ्रमजन- कदोषासमवहितसामग्रीत्वब्यापकत्वस्य स्वग्राहकसामग्रीत्वे स्वाश्रयनिष्टसविशेष्य कत्वादिविशेष्य कस्वाश्रय- विशेष्यकाप्रामाण्यादिप्रकारकभ्रमासमवहित प्रहत्वव्यापकत्वस्य स्वनिष्ठविषयताया वा निवेशनीयत्वात् न स्वतस्त्वमङ्ग इति व्याचः । ननु त्रिपुटीप्रत्यक्षवादिगुरुमते घटादिविधयकज्ञानस्यैव तादृशज्ञानविषयकत्वात् भट्टमते स्वाश्रयानिष्टसविशेष्य कत्वादिविशेष्यकाप्रामाण्यमहासमवहितानामतेविषयविषयकत्वाच तन्मतद्वये ज्ञानज्ञानस्य ज्ञानविषयकतादृशानुमितेश्च विषयघटितप्रामाण्यावगाहित्व संभवेऽपि मिश्रमते ज्ञानविषयकप्रत्य- क्षमात्रस्य न ज्ञान विषयपटादिविषयकत्वं घटं जानामीत्य नुव्यवसायस्य घटादिविषयकत्वेऽपि ज्ञानत्वमात्रेण ज्ञानविषयकं जानामीत्यनुव्यवसायस्य विषयविषयकत्वाभावादेवं च प्रामाण्ये तन्मतसिद्धज्ञानविषयकप्रत्यक्षत्व. व्यापकविषयतानिरूपकत्वरूपस्वतस्त्वं बाधितमित्याशा परिहरति ॥ विषयनिरूप्यं हि ज्ञानमिति॥ हि यतः किचिनिष्ठविषयतानिरूपकमेवेत्यर्थः ॥ ज्ञानमिति ॥ ज्ञानसामान्यमित्यर्थः यतो ज्ञानत्वं विषयताव्याप्यं इति समुदितार्थः । निर्विषयत्वस्य ज्ञानत्वे प्रमाणाभावादिति भावः ॥ अत इति ॥बानमात्रस्य सविषय-- कत्वादित्यर्थः । ज्ञानावित्तिवेद्य इति ॥ ज्ञाननिष्टलौकिकविषयताशालिज्ञाननिरूपितविषयतावानित्यर्थः ॥ विषय इति ॥ लौकिकविषयताश्रयज्ञाननिरूपितविषयतावानित्यर्थः । तज्ज्ञाननिष्टलौकिकविषयताशालि- प्रत्यक्षं तज्ज्ञानविषयविषयकमिति फलितोऽर्थः । तथाच ज्ञानमात्रस्य सविषयकत्वसिद्धौ घटादिज्ञा- ननिष्ठलौकिकविषयताशालिप्रत्यक्षं घटत्वादिविशिष्टविषयकं घटत्वप्रकारकघटादिविशेष्यकनिर्णयजन्यत्वा- वटवद्भूतलमित्यादिप्रत्यक्षवदित्यनुमानात् ज्ञानप्रत्यक्षमात्रस्य ज्ञानविषयविषयकत्वसिद्धिरिति भावः । नचाप्रयो- जकत्वं विशिष्टवैशिष्टयावगाप्रित्यक्षत्वेन विशेषणतावच्छेदकप्रकारकनिर्णयत्वेन कार्यकारणभावरूपानुकूलत- कसत्त्वात् तस्मात् घटादिज्ञानरूपव्यवसायमात्रस्य घटत्वादिप्रकारकानर्णयात्मकतया कारणवत्वेन तदुत्तरं दिनकरीयम् . टितप्रामाण्यं तस्य विषय इत्यतो ज्ञानज्ञानस्य विषयविषयकत्वे प्रमाणमाह ॥ विषयनिरूप्यामिति ॥ वि. षयाविषयकप्रत्यक्षाविषय इत्यर्थः ॥ज्ञानवित्तिवेद्यो विषय इति । विषयविषयकतानियतस्वविषयक.