पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.४२ कारिकावली गुणखण्ड: णस्य कारणताया न्याय्यत्वात् । नच गुणसत्त्वेऽपि पित्तन प्रतिबन्धाच्छ न चैत्यज्ञानं अतः पित्तादिदोषाभावानां कारणत्वमवश्यं वाच्यं तथा च किं गुणस्य हेतुत्वकल्पनेनेति वाच्यं तथाप्यन्वयव्यतिरेकाभ्यां गुणस्यापि हेतुत्वसिद्धेः । एवं भ्रमं प्रति गुणाभावः कारण- मित्यम्यापि सुवचत्वान् । तव दोषाः के इत्याकाङ्क्षायामाह ॥ पित्तति ।। क्वचित् पीतादि- भ्रमे पित्तं दोषः कचिचन्द्रादेः स्वल्पपरिमाणभ्रमे दूरत्वं दोषः क्वचिञ्च वंशोगभ्रमे मण्डू- कवसाचनमित्यवरूपा दोषा अननुगता एव भान्तिजनका इत्यर्थः ।। १३१॥ प्रभा. साध्यक्त्पक्षविशेष्यकपर(मर्शत्वादिना हेतुताया एवेत्यर्थः॥ न्याय्यत्वादिति ।। लाघवरूपप्रमाणसिद्धत्वा. दित्यर्थः । तथाच प्रत्यक्षादिप्रमाणानां मध्ये एकैकप्रमा प्रति निरुकदोषाभावानां प्रत्येकरूपेणानन्तहेतुत्वम् । एवम नुमित्यादिप्रमा प्रति साध्य शून्यपक्षविशेष्य कपरामर्शाभावादेः तेन तेन रूपेणानन्तहेतुत्वं वाच्यामिति अ. नन्तगौरवं तदपेक्षयातिलाघवात् प्रत्यक्षादिप्रभादौ गुणानां विशेषणवद्विशेष्यन्द्रियसन्निकर्षत्वादिना कार्य- कारणभावचतुष्टयााकार एव उचित इति भावः । एतावता तन्मतमुपन्यस्य इदानी दोषाभावस्यान्यथानु- पपत्त्या कारणत्वावश्यकत्व प्रदर्शनेन तन्मतन्निरस्य दापाभावगुणयोः कारणत्वं व्यवस्थापयितुमाक्षिपति ॥ नचेति ॥ गुणसत्त्वेऽपीति ॥ शुकरूपत्वाच्छकेन्द्रिय संयोगरूपगुणसत्त्वेऽपीत्यर्थः ॥ तेन प्रतिबन्धा दिति ॥ पित्तद्रव्यरूपप्रतिबन्धकवशादित्यर्थः ॥ शङ्ख न श्वैत्यज्ञानमिति ॥ शङ्खविशेष्यकशुक्लरूपप्रका रकज्ञानं नोत्पद्यत इत्यर्थः ॥ अत इति ॥ निरुक्त गुणरूप कारण मत्त्वेऽपि शुक्लप्रमानुत्पत्तिवशादित्यर्थः ॥ कारणत्वमवश्यं वाच्यमिति ॥ अन गुगतरूपेणानन्त हेतुत्वमन्यथानुपपत्त्यावश्यं स्वीकार्यमित्यर्थः ॥ तथाचति ॥ दोषाभावानां हेतुत्वस्यवश्यकत्वं चेत्यर्थः ॥ किं गुणस्येति ॥ गुणस्य हेतुत्वाङ्गीकारेण किं प्रयोजनमित्यर्थः । तथाचावश्यकदोषाभावनेव निर्वाहे गुणस्यापि न हेतुत्वं अन्यथासिद्धत्वादिति भावः ॥ तथापीति ॥ दोषाभावानां हेतुत्वस्यावश्यकत्वेऽपीत्यर्थः ॥ अन्वयव्यतिरेकाभ्यामिति ॥ पटादौ पातरूपात्मकविशेषणपद्विशेष्येन्द्रियसानिकर्षसत्त्वात् पीतरूपप्रकारकप्रमोत्पत्तिः पित्तरूपदोषाभावस्याविशिष्ट- त्वेऽपि सुवर्णधर्म्यन्तरघटित सन्निकर्षवशात् पीतरूपप्रकारकभ्रमात्मकलोकिकप्रत्यक्षोत्पत्तावपि सुवर्णस्य पीत- स्हपत्वाभावेन तत्र विशेषणवावशेष्येन्द्रिय सन्निकर्षरूपगुणाभावात् पीतरूपप्रकारकप्रमाया अनुत्पत्तिरित्यन्वय- व्यतिरेकाम्यामित्यर्थः ॥ हेतुत्वसिद्धेरिति । तथाच निरुक्तान्वयव्यतिरेकाभ्यां गुणस्यापि हेतुत्वावश्य- कतया न तेन गुणस्यान्यथासिद्धत्वमिति भावः । एवमिति ॥ उक्तयुक्त्या प्रमा प्रति गुणस्येव दोषाभा- वस्यापि यथा कारणत्वं तथेत्यर्थः ॥ भ्रमं प्रतीति ॥ भगवज्ञानानिरूपित्तप्रत्यक्षत्वावच्छिन्ननिरूपितविष. यताशालिवावच्छिन्नं प्रतीत्यर्थः ॥ गुणाभाव इति ॥ विशेषणविशेष्यन्द्रिय सन्निकर्षत्वसाध्यवत्पक्षविशेष्यक- परामर्शत्वाद्यवच्छिन्नाभाव इत्यर्थः ॥ कारणमिति ॥ तथाच पित्तादिदोषस्थाविशिष्टत्वेऽपि शङ्कादाविव पीतपटादौ पीतरूपभ्रमानुत्पत्त्या विशेषणवद्विशेष्येन्द्रियसन्निकर्षरूपगुणस्य प्रतिबन्धकत्वमङ्गीकृत्य तदभाव. स्य तत्र हेतुत्वं वाच्यं पीतपटादौ तु तादृशप्रतिवन्ध कामावरूपकारणाभावान्न तदापतिरिति भावः । इत्यस्यापीति ॥ इत्याकारकभ्रमगुणाभावयोः कार्यकारणाभावस्यापीत्यर्थः ।। सुवचत्वादिति ॥ अव. दिनकरीयम् . मस्तीत्याह ।। अनन्तेति ॥ न्याय्यत्वादिति ॥ अनुगतगुणत्वस्याने वक्ष्यमाणत्वान्न तद्धेतुत्वमतेऽयं दोष इति भावः । तथा च दोषाभावानां हेतुत्वस्यावश्यकत्वे च ॥ गुणस्यापीति ॥ तथा च पित्तादि. दोषाभावसत्त्वेऽपि विशेषणवद्विशेष्यसन्निकर्षरूपगुणाभावान शङ्ख पीतत्वप्रमेति दोषाभावेन न गुणस्यान्यथा- सिद्धिरिति भावः ॥एवं एवं सति अन्वयव्यतिरेकसत्त्वेऽपि यद्यन्यधासिद्धत्वं तदेत्यर्थः ॥ गुणाभावः गु- गाभाव एव न तु दोषः कारण स्यादिति भावः ॥ १३१॥