पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । शय इत्यर्थः ।। साधारणेति || उभयसाधारणो यो धर्मस्तज्ज्ञानं संशयकारणं यथा उन- स्वं स्थाणुपुरुषसाधारणं गृहीत्वायं स्थाणुन वेत्ति सन्दिग्धे । एवमसाधारणधर्मज्ञानमपि कार- णं यथा शब्दत्वस्य नित्यानित्यव्यावृत्तत्वं गृहत्विा शब्दो नित्यो न वेति सन्दिग्धे । विप्रतिपत्तिस्तु शब्दो नित्यो न वेत्यादिशब्दात्मिका न संशयकारणं शब्दव्याप्तिशानादीनां प्रभा. प्त्यप्रसक्त्या एकधर्मावच्छिन्नविशेष्यतावच्छेदकताकत्वविवक्षाया अप्रसक्ते: । तथा विवक्षायामपि पर्वतो वह्निमान्नवेति संशयासहप्रसङ्गस्य नीलत्ववद्वान् गन्धवान् जातिमद्वान् गन्धाभाववामित्यादिनिश्चयस्य सं- शयत्वप्रसङ्गस्य च सुतरामप्रसक्तः । यश्च स्वीयैककोटिप्रकारतावच्छिन्नप्रतिवध्यतानिरूपित प्रतिबन्धकताच- च्छेदकीभूतापरकोटिप्रकारताशालिज्ञानत्वं संशय त्वमिति निर्गठितसंशयत्वनिर्वचनं तदत्यन्तासनतं समा- नाकारकज्ञानव्यक्तिभेदेन विषयताभेदमनजीकृत्यैवैतादृशसंशयत्वस्य वक्तव्यत्वात् स्वशब्देन पर्वतो वह्निमान्न वेति संशयत्येव पर्वतो वह्निमान् वह्नयभावांश्चेति समुच्चयस्यापि प्रहीतुं शक्यतया परिष्कृतलक्षणस्यापि समुच्चयातिव्याप्तेर्दुरित्वादिति । अस्मद्गुरुचरणास्तु संशयत्वं चायमर्थस्सन्दिग्ध इति प्रतीतिसाक्षिको जा. तिविशेषः । नव चाक्षुषत्वादिना सायान्न तम्य जातिरूपतेति वाच्यम् । चाक्षुषत्वादिव्याप्यनानाजाति स्त्री. कारात् संभवति जातित्वे उपाधित्वकल्पनाया अनुचितत्वात् अन्यथा पृथिवीत्वाभाववति सुवर्णपटादौ व. र्तमानस्य घटत्वस्य घनत्वाभावप्रति पटादौ वर्तमानस्य पृथिवीत्वस्य च पार्थिव घटे समावेशरूपसाङ्र्येण ध. टत्वस्यापि जातित्वानुपपत्तेः । नचेष्टापत्तिः पृथिवीत्वादिव्याप्यानेकघटत्वस्वीकारेण सङ्करं परिहत्य तस्य जा- तित्वव्यवस्थापकभाष्यादिप्रन्धविरोधापत्तेः अत एव गदाधर भट्टाचायैरवच्छेदकत्वनिरुक्तौ नानाधटत्वजातिरि- त्यङ्गीकृतं तस्मात्संशयत्वं जातिविशेष एव स संशयो मतियां स्यादिति मूलं च तत्तसंशयलक्षणपरमिति व्याचः । एतावता संशयस्य स्वरूपं लक्षणं चोपपाद्य इदानीं तस्य वक्ष्यमाणसूत्रकमानुसारेण सामग्रीमाह ॥ मूले साधारणादीति ॥ साधारणपदार्थमाह ॥ मुक्तावळ्यामुभयसाधारणो यो धर्म इति ॥ कोटि- द्वयसहचारितत्वेन गृह्यमाणो यो धर्म इत्यर्थः । तेन घटत्वतदभावसहचरितपटत्ववानयामिति भ्रमादयं घटो नवेति संशयोपपत्तिः ॥ तज्ज्ञानमिति ॥ तत्प्रकारकनिश्चय इत्यर्थः । एतादृशनिश्चयस्य संशयहेतुतामुपपा. दयति ॥ यथेति ॥ उच्चैस्त्वमिति || स्थावस्थाणुसाधारणमुञ्चैस्त्वामिति योजना । स्थावस्थाणुसहच. स्तित्वेन गृह्यमाणमुच्चैस्त्वमित्यर्थः ।। गृहीत्वेति ॥ संशयधर्मिणीत्यर्थः ॥ सन्दिग्ध इति क्रियापदम् । स-- न्देहवान् भवतीत्यर्थः । तथाच स्थावस्थाणुसहचरितत्वेन वर्तमानग्रहविषयधर्मप्रकारकपुरोवृत्तिविशेष्यकज्ञा- नात् पुरोवृत्तिविशेष्यकस्थाणुत्वतदभावकोटिकसंशयो भवतीति भावार्थः । अत्र साधारणधर्मवद्धर्मिज्ञानजन्य- कोटशुपस्थितेरेव संशयजनकत्वं तादृशधर्मिज्ञानस्य तु प्रयोजकत्वमन्यधासिद्धत्वादिति प्राचां मतम् । यथाकथञ्चित् कोटिद्वयोपस्थितिसहकृतसाधारणधर्मवद्धर्मिज्ञानस्यैव संशयजनकत्वं कोटिद्वयोपस्थित्युत्पत्तिक्ष- ण एव संशयोत्पत्तिसंभवात् क्षणविलम्बकल्पनायां मानाभावान् तादृशर्मिज्ञानजन्यकोटिद्वयोपस्थितेस्संशय- हेतुत्वस्वीकारे कोटिद्वयोपस्थितेस्तादृशधर्मिज्ञानजन्य कोटिद्वयोपस्थितित्वेन हेतुत्वे गुरुरूपेणकारणत्वापत्तेः तत्तध- कित्वेन हेतुत्वं न संभवति व्यभिचारात कार्यतावच्छेदककोटौ कारणवैशिष्टयं निवेश्य व्यभिचारबारणेऽनन्त कार्य- कारणभावापत्तेः क्षणविलम्बकल्पनापत्तेश्चेति नवीनानां मतम् । एवमप्रेऽपीति हृदयम् । साधारणादिधर्मस्येति मूलस्थादिपदार्थान् क्रमेणाह ॥ एवमिति ॥ असाधारणधर्मज्ञानमिति ॥ कोटिद्वयाधिकरणावृत्तित्वेन गृह्य- माणधर्मप्रकारकनिश्चय इत्यर्थः । तादृशनिश्चयस्य संशयहेतुत्वस्थलमुदाहरति ॥ यथेति ॥ शब्दत्वस्य निस्या- नित्यव्यावृत्तत्वं गृहीत्वेति ॥ नित्यत्वाधिकरणावृत्तित्वानित्यत्वाधिकरणावृत्तित्वोभय प्रकारकवर्तमानग्रह- विषयशब्दत्वप्रकारकनिधयोत्तरमित्यर्थः ।। सन्दिग्ध इति । सन्देहवान् भवतीत्यर्थः समानानेकधर्मोपप. तेः विप्रतिपत्तेरित्यादिसूत्रेण भावाभावरूपार्थप्रतिपादकवाक्यज्ञानरूपविप्रतिपत्तरप्यर्थस्मृतिद्वारा संशयहे- तुत्वप्रीतपादनात्तदनुरोधेन संशयात्मकशाब्दबोधोऽप्यवश्यमङ्गीकार्य इति मतं निराकरोति ॥ विप्रति-- 93