पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्डः परत्वं चापरत्वं च द्विविधं परिकीर्तितम् । दैशिकं कालिकं चापि मूर्त एव तु दैशिकम् ॥ १२१ ।। परत्वं मूर्तसंयोगभूयस्त्वज्ञानतो भवेत् । अपरत्वं तदल्पत्वबुद्धितः स्यादितीरितम् ॥ १२२ ।। परापरव्यवहारनिामेत्ते परत्वापरत्वे निरूपयति ॥ परत्वं चेति ॥ दैशिकमिति ।। प्रभा. स्थेन विभागस्य गुणत्वानङ्गीकारे नाशस्य सावधिकत्वाभावात् संयोगनाशस्य घटप्रतियोगिकत्वाभावाचाव. धित्वाद्यर्थकपञ्चमीघटितस्य घटापटः पृथगितिप्रयोगानुपपतिः तस्य गुणत्वे च तादृशप्रयोगोपपत्तिरिति बाधकप्रदर्शनपूर्वकोपष्टम्भकप्रदर्शन तदपि हेयमेव । घनादन्य इत्यादौ पञ्चम्याः प्रतियोगित्वार्थकत्ववद्वला- हकाद्विद्योतते विद्युदित्यत्र पञ्चम्याः अवच्छेद्यत्वार्थकत्ववच्च घटाद्विभक्त इत्यत्र पञ्चम्या आधे यत्वार्थकत्वमङ्गी- कृत्य घटवृत्तिम योगध्वंसवान् पट इति बोधौपयिकतया तादृशप्रयोगसमर्थनसंभवेन तस्योपष्टम्भकत्वासंभवात् तस्मादुकरीत्या विभागस्य गुणत्त्व व्यवस्थापनमकिश्चित्करमेवेति । वस्तुतस्तु विभागस्य संयोगात्यन्ताभावरू. पत्वं न संभवति संयुक्तऽपि घटादी किञ्चिदवच्छेदेन संयोगात्यन्ताभावसत्वेन विभक्तप्रत्य यापत्तेः नापि सं. योगानधिकरणवृत्तित्वविशिष्टसंयोगात्यन्तामावरूपरवं घटपटसंयोगशून्यकालेऽपि विभक्तप्रत्ययानापतेः ताह- शसंयोगात्यन्ताभावस्य घटादाववर्तमानत्वात अत एव न संयोगान्योन्याभावरूपत्वं संयुक्तेऽपि तथा प्रत्यया । पत्तेः । नापि संयोगप्रागभावरूपत्वं घटपटयोश्चरमसंयोगोत्पत्त्यनन्तरं तादृशसंयोगनाशे तत्र विभक्तप्रत्यया- नुपपत्तेः तत्र पुनस्संयोगानुत्पत्या तत्र संयोगप्रागभावरूपविषयसत्त्वे मानाभावात् । अन्यथा चरमसंयोगो. त्पत्त्यनन्तरमपि तत्र कोटिकोटि संयोगनागभावस्वीकारापत्तेः नापि संयोगध्वंसरूपता संयुक्तऽपि घटादौ तथा प्रत्ययापत्तेः पूर्वकालीनसंयोगध्वंसरूपविषयस्य च सत्त्वात् । नच घटपटविभागस्य घटपटसंयोगानधिकरणक्ष. णवृत्तित्वविशिष्टसंयोगध्वंसरूपत्वस्वीकारात् तत्संयुक्तघटादौ न तथा प्रत्ययापत्तिरिति वाच्यं विशिष्टस्य क्षणध. टितत्वस्यातीन्द्रियत्वेन घटो विभक्त इत्यादिलौकिकप्रत्यक्षानुपपत्तेः तस्मात् अन्यथानुपपन्या विभागस्य गुणान्तर त्वमवश्यमङ्गीकार्यमिति प्रतिभाति !॥ ११५ ॥ ११६॥ ११७ ॥ ११८ ॥ ११९ ॥ १२० ॥ मूले परत्वं चापरत्वं चेत्यादिना विभागकरणमयुक्तं तयोसामान्यधर्मात्मकलक्षणप्रकारकज्ञानाभावेनाजि- ज्ञासितत्वात् तदप्रतिपादनेन मुलकारस्य न्यूनतेत्याक्षेपं लक्षणप्रतिपादनेन स्वयं परिहरति ॥ मुक्तावळ्यां परापरेति ॥ तथाचायमस्मात्परः अपर इत्याकारकशब्दनिष्ठप्रतिपाद्यतासंबन्धावच्छिन्नकार्यतानिरूपितस- मवाय संबन्धावच्छिन्न कारणत्वस्य तादृशकारणतासमानाधिकरणरूपावृत्तिजातिमत्वस्य तादृश कारणतावच्छे- दकतया सिद्धपरत्वादिजातिमत्त्वस्य वा परत्वापरत्वलक्षणत्वलाभान्न न्यूनतेति भावः । यद्यपि परत्वादिपद- शक्यतावच्छेद कतयापि परत्वत्वादिजातिसिद्धिर्भवति तथापि परत्वापरत्वे परापरप्रत्ययानिमिते इति भाष्यो- ककारणतावच्छेदकतया तसिद्धिसम्पादनाय तयोस्तादृशव्यवहारनिमित्तत्वप्रदर्शनामिति हृदयम् ॥ मूर्त ए- व तु दैशिकमिति ॥ मूल एवकारोक्तश्रूयमाणतुशब्दो देशि कमित्युत्तरं योज्यः मूर्त एवेत्येवकारेणामूर्तग. गनादिचतुष्टयावृत्तित्वं लभ्यते दैशिकपदेन दैशिकपरत्वं अपरत्वं च दैशिकपदोत्तरं योजिताप्यर्धकतुशब्देन कालिकपरत्वं अपरत्वं च लभ्यते एवंच कालिकपरत्वापरत्वे यथा गगनादिचतुष्टयान्यतमावर्तिनी तथा दैशिकपर. स्वापरत्वे अपि तादृशान्यतमावर्तिनी किन्तु मूर्तवर्तिनी इत्यर्थः फलितः। कालिकपरत्वापरत्वयोः आश्रयस्तु जन्य. द्रव्यमिति मुकावळ्यां वक्ष्यति । तथाच विमौ दिक्संयोगरूपासमवायिकारणाभावेन तत्र दैशिकपरत्वापरत्वोत्प- त्यसंभव इति भावः । केचित्तु मूले मूर्त एव तु दैशिकमिति विभुद्रव्ये विप्रकृष्टदेशमात्रवृत्तित्वसन्निकृष्टदेशमात्रवृ. दिनकरीयम् . मूले मूर्त एव तु दैशिकमिति ॥ विभुद्रव्ये विप्रकृष्टदेशमात्रवृत्तित्वसन्निकृष्टदेशमात्रवृत्तित्वबुद्धे- नमित्तकारणस्य दिक्संयोगस्यासमवायिकारणस्य चाभावदिति भावः । दैशिकपरत्वस्य निमित्त कारणमाह ।।