पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्वितां । मिन्नो गुणान्तरं कल्प्यत इति ॥ ११३ ॥ ११४ ॥ प्रभा. कारेण नऽपदस्यातादृशतमा घटो नेत्यत्र पञ्चम्यापादनासंभवात् नवीनमत एव एत दूषणमभिहितम् । नवीनमते सूत्रस्थान्यपदस्यान्योन्याभावार्थकविभकिमच्छब्दपरत्वस्वीकारे पृथक्शब्दस्यान्योन्याभावार्थकत्वेऽपि विम- क्तिमत्त्वाभावात् पृथक्शब्दयोगे पञ्चम्यप्राप्त्या घटात्पृथगिति प्रयोगानुपपसेः सूत्रस्थान्यपदस्यान्योन्याभावार्थ- कपदसामान्यपरत्वस्यैव स्वीकार्यस्वेन घटो नेत्यत्र पञ्चम्यापत्तिरूपदोषसङ्गतिःविभक्तिशून्यान्योन्याभावार्थकपृ. धक्शब्दप्रयोगे यथा पञ्चमी तथा तादृश नञ्पदप्रयोगेऽपि पञ्चम्यापत्तिरिति तुल्यदृष्टान्तेन दोषदानाय घटादन्य इत्यादिप्रयोगरूपदृष्टान्तं परित्यज्य घटात्पृथगिति प्रयोगरूप दृष्टान्तानुसरणमिति ध्येयम् । नच घटस्थान्यो- न्याभाव इत्यादौ मतद्वयेऽप्युक्तसूत्रबलात् पञ्चम्यापादनसंभवे तादृशस्थलमुपेक्ष्य घटो नेत्यत्र पञ्चम्यापादने किं बीजमिति वाच्यं सूत्रस्थान्यपदस्थ प्रतियोगित्वत्त्वावच्छिन्नविषयतानिरूपितान्योन्याभावत्वावच्छिन्न- विषयताशालिबोधतात्पर्येणोच्चरितान्योन्याभावार्थकशब्दपरतया घटस्थान्योन्याभाव इत्यत्रान्योन्याभावश- ब्दस्य संबन्धत्वावच्छिन्नविषयतानिरूपितान्योन्याभावनिष्टविषयताशालिबोधतात्पर्येणोच्चरितत्वात् अन्यो- न्याभाव इति शब्दश्रवणे कस्यान्योन्याभाव इति संबन्धाकाङ्क्षाया एवोदयात् शेषे षष्ठीति सूत्रेण संबन्धसामा- न्ये षष्ठीविधागात् तत्र संबन्यत्वावच्छिन्नविषयतानिरूपितान्योन्याभावनिष्ठविषयताशालिबोधस्यैव जायमा. नत्वाच सूत्रस्थान्यपदेनान्योन्याभावपदस्य ग्रहणासंभवेन घटस्यान्योन्याभाव इत्यत्र मतद्वये ऽपि पञ्चम्यापादनासंभवात् घटो नेत्यत्रैव तदापादनं कृतमिति हृदयम् ॥ तस्मादिति ॥ पृथक्श- ब्दस्यान्योन्याभावार्थकत्वमते उसस्थले पञ्चम्यापत्तिरूप दोषादित्यर्थः ॥ यदर्थकयोगे पञ्चमीति । याशार्थकपदयोगेन घटादिपदोत्तरं पञ्चमी साध्वी भवतीत्यर्थः ॥ सोऽर्थ इति ॥ तादृशोऽर्थ इत्यर्थः ॥ अन्योन्याभावतो भिन्न इति ॥ अन्योन्याभावापेक्षयातिरिक्त एवेत्यर्थः ॥ गुणा- न्तरमिति ॥ कृप्तगुणातिरिक्तगुण एवेत्यर्थः ॥ कल्प्यत इति ॥ घटः पटात्पृथगित्यादिप्रतीत्या विषयीक्रि यत इत्यर्थः । तथाचान्योन्याभावपृथक्त्वयारेक्ये नञ्पदसमभिव्याहारस्थलेऽपि पञ्चम्यापच्या रूपादिगुणा- नां निरुतप्रमितिविषयत्वासंभवेन चातिरिक्तगुणतया च पृथक्त्वमङ्गीकार्यमेवेति भावः । ननु पृथक्शब्दस्या- न्योन्याभावार्थकत्वाभाचे तस्य निरुक्कसूत्रप्रतिपाद्यपदत्वाभावेन तद्योगे पञ्चम्यनुपपत्तिरिति चेन पृथग्विना- नानाभिस्तृतीयान्य तरस्यां इति सूत्रेण पृथगादिशब्दयोगे द्वितीयातृतीयापञ्चमीविभ कीनां विकल्पेन विधा. नात् तादृशप्रमाणेनैव पृथक्पदयोगस्थले सर्वत्र पञ्चम्युपपत्तेः न काप्यनुपपत्तिरिति विश्वनाथपञ्चाननस्य नि. गूढाभिप्रायः । प्राचीनमतानुयायिनस्तु सूत्रस्थान्यपदस्य पृथक्त्ववाचकशब्दपरतया तादृशशब्दयोग एव पञ्चमीप्राप्त्या नञः पृथक्त्ववाचकत्वाभावात् घटो नेत्यादौ न पञ्चम्यापत्तिः नचैवं घटादन्य इत्यादौ पञ्च- म्यनुपपत्तिः अन्यभिन्नशब्दादेरपि पृथक्त्ववाचकत्वात् अन्योन्याभावार्थकशब्दयोगे प्रतियोग्यनुयोगिवाच- कपदयोः समानविभकिकत्वनियमेनान्यादिशब्दानां अन्योन्याभावार्थकत्वासंभवात् । नच घटल्यान्योन्या. भावः घट इत्यत्रान्योन्याभावपदस्यान्योन्याभावार्थकतया तत्समभिव्याहतप्रतियोग्यनुयोगिवाचकपदयोः स. मानविभकिकत्वाभावेनोशनियमासंभव इति वाच्यं प्रतियोगिनिष्ठनकारतानिरूपितप्रतियोगितात्वावच्छि, नविषयतानिरूपितान्योन्याभावनिष्टविषयताशालिबोधौपयिकान्योन्याभावार्थकपदयोग एव प्रतियोग्यनुयो- गिवाचकपदयोः समानविभक्तिकत्वानियमाझीकारात् अन्योन्याभावपदस्य तादृशशाब्दबोधौपयिकस्वाभावेनोः कनियमभङ्गाभावात् । एवंच न काभ्यनुपपत्तिरित्याहुः । तन्नान्यादिपदस्य पृथक्त्वरूपगुणवाचकत्वस्वीकारे गुणत्वं कर्मत्वादन्यदित्यादिप्रतीतिप्नयोगयोः अनुपपत्तिः गुणादौ गुणानङ्गीकारेण गुणत्वे कर्मवावाधिकपृथ- क्वाभावात् गुणत्वाश्रये पृथक्त्वाभावेनाश्रयनिष्टपृथक्त्वमादायापि तदुपपादनासंभवात् । तस्मात् अस्य- भिन्नादिशब्दानां अन्योन्याभावार्थकत्वं अवश्यमङ्गीकार्यमिति नोक्तरीतिरादरणीयेति । नव्यास्तु पृथक्त्व- मन्योन्याभाव एव न गुणान्तरं प्रमाणाभावात् नचैव सति घटो नेत्यन पञ्चम्यापत्तिपटात्पृथगिलन पश्च- म्यनुपपत्त्या सूत्रस्थान्यपदस्यान्योन्याभावार्थकविभक्तिमत्पदपरत्वास भयेनान्योन्याभावार्थकपदसामान्ययो.