पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१२ कारिकावली गुणखण्ड थक्त्वमपि द्वित्वादिवज द्विपृथक्त्वादिकमपीत्यर्थः । नन्दयमस्मात् पृथगित्यादावन्योन्याभा- प्रभा. प्यूह्यानि ॥ आश्रय इति ॥ अनित्यघटपटादिरूपाश्रय इत्यर्थः ॥ द्वितीयक्षणे चोत्पद्यत इति ॥ द्वितीयक्षणे उत्पद्यते चेति योजना । आद्यक्षणे अनित्याश्रयोत्पत्तिस्वीकारे तस्य समवायिकारणत्वानुपपत्ति- रिति द्वितीयक्षण इत्युक्तम् । तथाच अनित्यमे कत्वमाश्रय समवाधिकारणकमिति उत्पद्यत इत्यन्तस्यार्थः फ- लितः। तदुत्तरं योजितवकारेण स्वाश्रयावयवगतैकत्वासमवायिकारणकं चेति ससुच्चीयते ॥ तथैकपृथक्त्व. मपीति ॥ व्यक्तिद्वयासमवेतपृथक्त्वमपीत्यर्थः । नित्ये वर्तमानमेकपृथक्त्वं नित्यमनित्ये वर्तमानं तदनित्यम् । तञ्चाश्रयसमवायिकारणकं आश्रयावयवगतै कपृथक्त्वासमवायिकारणकं आश्रयनाशनाइयं चेति फलितोऽर्थः । द्वित्वादिवत् द्विपृथकत्वादिकमपीति॥ द्वित्वादिकं यथा समवायिकारणगतानेकैकत्वासमवायिकारणकं अयमेकः अयमेकः इमो द्वौ अयमेक इमे लय इत्याद्यपेक्षाबुद्धिजन्यं अपेक्षाबुद्धिनाशात् क्वचिदाश्रयनाशानश्यति च तथा द्विपृथक्त्वादिकमपि स्वाश्रयसमवेताने कैकपृथक्त्वासमवाय कारणकं इदमेकपृथक् इदमेकपृथक् इमे द्वि- पृथक् इदमेकपृथक् इमानि त्रिपृथगित्याकारकापेक्षाबुद्धिजन्यं च तादृशापेक्षाबुद्धिनाशात् क्वचिदाश्रयनाशाच्च न. श्यति चेति भावः अत्र द्विपृथक्त्वं नोमयसमवेतपृथक्त्वं त्रिपृथक्त्वस्याप्याधिक रिवति न्यायेन उभयसमवेतत्वा- त् । एवं त्रिपृथक्त्वादिकमपि न बितयसमवेतपृध क्त्वादिरूपं चतुः पृथक्त्वादेरप्युक्तरीत्या त्रितयसमवेतत्वात् । नचोभय पर्याप्तपृथक्तवं द्विपृथक्त्वमेचं बितयादिपर्याप्तपृथक्त्वमेव त्रिपृथक्त्वादिकामिति नोकदोषः । त्रिप थक्त्वादेरभयादिसमवेतत्वेऽपि उभयादिपर्याप्तत्वाभावादिति वाच्यम् । प्रत्येकपर्याप्तिवादिमते त्रिपृथक्त्वादे- रप्युभयादिपर्याप्तत्वेन तद्दोषतादवाथ्यात् किंतु वितयासमवेतोभयसमवेतपृथक्त्वमेव द्विपृथक्त्वं एवं चतुष्टया. द्यसमवेतत्रितयादिसमवेतपृथक्त्वादिकमेव त्रिपृथक्त्वादिकामिति न कोऽपि दोषः । वस्तुतस्तु यथैकत्वादि पदशक्यतावच्छेदकतया सिद्ध कत्वत्वादिजातिविशेषवत्त्वमेकत्वत्वादिकं तथैकपृथक्त्वादिपदशक्यतावच्छेद- कतया सिद्धकपृथक्त्वत्वादिजातिविशेषवत्त्वमेवैकपृथक्त्वत्वादिकमपीति न काप्यनुपपत्तिरिति प्रतिभाति । ननु घटः पटात् पृथगिति प्रतीत्यैकपृधक्त्वसिद्धावपि द्विपृथक्त्वादौ मानाभावः । नच धटी पटात् पृधगिति प्रतीति- रेव द्विपृथक्त्वादी मानमिति वाच्यं तादृश प्रतीतेः प्रत्येकसमेवतकृतपृथक्त्वद्वयविषयकत्वनैवोपपत्तरिति चेन्न । घटौ पटात् पृथक् इत्यत्र घटय समवेतत्वेन पृथक्त्वभानात् एकैकपृथक्त्वस्य घटद्वयासमवेतत्वेन ताह- शप्रतीभ्रंमत्वप्रसङ्गात् । नचैकपृथक्त्वद्वयान्यतरत्वेन कपृथक्त्वेन वा पृथक्त्वद्वयावगाहित्वस्वीकारान भ्रम- त्वप्रसङ्गः । घटद्वयेऽपि निरुक्तरूपणैकपृथक्त्वसत्त्वादिति वाच्यम् । तथा सत्ति घटी द्वावित्यादिप्रतीतेः ए कस्वत्वेन एकत्वद्वयान्यतरत्वादिना वा एकत्वद्वयाद्यवगाहित्वनैवोपपत्तेरतिरिक्तद्वित्वादिपराधपर्यन्तसङ्खयाया अपि अस्वीकारापत्तेः । नचेष्टापत्तिः अनुभवाविरोधात् सर्वसिद्धान्तविरोधाच । यदि चैकस्मिन्नपि निरुक. रूपेणैकत्वसत्त्वात् एको द्वावित्यादिप्रत्ययापत्यातिरिक्तद्वित्वादिस्वीकार आवश्यक इति विभाध्यते तदाकाशा- द्यकव्यकावपि निरुक्तरूपण कपृथक्त्वसत्वात् आकाशमेकपृथगिति प्रतीतिवदाकाशं द्विपृथक् निपृथक् इत्या- दिप्रत्यायापत्तिवारणायातिरिक्तद्विपृथक्त्वादिस्वीकारोऽप्यावश्यक एवेति रीत्या द्विपृथक्त्वादिस्वीकारे बाध- काभावात् बाधकामावविशिष्टनिरुक्तप्रतीत्या द्विपृथक्त्वादिसिद्धिनिष्प्रत्यूहेति प्राचामाशयः । केचित्तु घटौ प. टात्पृथगित्यादिप्रतीतेः पटावधिक कपृथक्त्वद्वधादिनाप्युपपत्तेरुभयसमवेतपृथक्त्वादौ मानाभाव इत्याक्षिप्य घटी पटात्पृथगिति प्रतीत्या उभयसमवेतपृथक्त्वासिद्धेस्तेनैव घटः पटात् पृथगिति प्रतीत्युपपत्तेः एकपृथक्त्वे प्रमाणाभाव इत्यस्यापि वक्तुं शक्यत्वात् तस्मात् विनिगमनाविरहातू उभयमङ्गीकार्यमिति परिहारमाहुः । दिनकरीयम् एकपृथक्त्वं एकसमवेतपृथक्त्वम् ॥ द्वित्वादिवञ्चेति । तथा च द्विपृथक्त्वादौ समानाधिकरणान्येक पृथक्त्वान्यसमवायिकारणानि इदमेकं पृथगिदमेकं नानैकपृथक्त्व विषयिण्यपेक्षाबुद्धिनिमित्तकारणं तादृशबु- द्धिनाशातू क्वचिदाश्रयनाशात् क्वचिदुभाभ्यां द्विपृथक्त्वं नश्यतीति भावः । अत्रोभयसमवेतं पृथक्त्वं द्विपृथक्त्वं -