पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । प्रभा. तत्वात् । अतीन्द्रिये द्वयणुकादावपेक्षावुद्धिर्योगिनाम् । सर्गादिकालीनपरमाण्वादावीश्वरीया- पेक्षाबुद्धिः ब्रह्माण्डान्तरवर्तियोगिनामपेक्षाबुद्धिर्वा द्वित्वादिकारणमिति ॥ १०८ ।। भवदभिमतयत्किञ्चित्कारणस्य व्यअकसामग्रं प्रविष्टत्याहोकारमात्रेण सत्कार्यवादापत्तेरसंभवात्तैः पृथक् उत्पादकसामध्यनभ्युपगमादिति । नन्विमौ द्वाविति घटपटादिविशेष्य कादत्वादिप्रकारकलौकिक प्रत्यक्षब- लात् घटपटादिविशेष्यकाने कैकत्वप्रकारकापेक्षावुद्धधात्मककारण संभवाच्च घटपटादौ द्वित्वाद्युत्पत्तिसंभवेऽपि परमाण्वादिरूपातीन्द्रियद्रव्ये द्विवादिप्रत्यक्षस्यापेक्षाबुद्धेश्वाननुभाषिकतया प्रमाणाभावेन कुप्तकारणा. भावेन च न तत्र द्वित्तायुत्पत्तिसंभवः । नचेष्टापत्तिः । यणुकादिपरिमाणं प्रति परमाण्वादिगताद्वत्वादिस- जधाया एचासमवायिकारणतया परमाण्वादौ तदभावात् घणुकादेः परिमाणाभावप्रसङ्गात् परमाणुद्वयमि- त्यादिप्रामाणिकव्यवहारानुपपत्तिप्रसङ्गाच्चेत्यत आह ॥ अतीन्द्रिये द्वयणुकादाविति ॥ अदिना पर- माणुपरिप्रहः ॥ योगिनामिति ॥ तथाच परमाणुविशेष्यकास्मदाद्यरेक्षाबुद्धयसंभवेऽपि सर्वज्ञयोगिनां अपे क्षाबुद्धयैव परमाण्वादिषु दु वायु-पत्तिसंभवानोक्तदोष इति भावः । नन्विदानी योगिनामपेक्षाबुद्धिवशात् तत्र द्वित्वाद्युत्पत्तिसंभवेऽपि सर्गादौ योगिनामसत्त्वात् तदा तल कथं द्विवाद्य-पत्तिरत आह ॥ सर्गादिका लीनेति ॥ आदिना प्रळयपरिग्रहः । तथाच सर्गे प्रळये च योगिनामसत्वेऽपि ईश्वरीयापेक्षाबुद्धिवशात् तत्र द्वित्वाद्युत्पत्तौ बाधकाभाव इति भावः । नन्वीश्वरीयापेक्षाबुद्धेः द्वित्वाद्युत्पादकत्वे तस्या नित्यत्वेन नाशाभाना. नाशकाभानेन तज्जन्यद्वित्वादेरपि ना शानुपपत्त्या नित्याहत्वादेरपि स्वीकारापत्तिरत आइ. ॥ ब्रह्माण्डा न्तरवर्तियोगिनामिति । तथाच महाप्रळये मानाभावात् सकलब्रह्माण्डाणां एकदा नाशानङ्गीकाराच्चैक- सर्गोत्पत्तिकाले तस्य प्रळयकाले वा ब्रह्माण्डान्तरवतियोगिनामपेक्ष बुद्धिवशात् परमाणुा द्वित्वाद्युत्पत्ता वा धाभाव इति भावः । नन्वीश्वरीयापेक्षाबुद्धेः द्विवाद्युत्पादकत्वेऽपि न क्षतिः तत्तकार्य प्रति तत्तत्कालस्य कारणतया ईश्वरीयापेक्षाबुद्धिजन्यद्वित्वादेः कारणीभूततत्तकालविशेषनाशादेव नाशस्वीकारात् क्वचिदाश्रय नाशस्य हेतुत्ववत् कचित्कालविशेषनाशस्य द्वित्वादिनाशकत्वे बाधकामावात अपेक्षाबुद्धिनाशाच्चेति मूलस्थ- चशब्दास्यानुक्कसमुच्चायकतया आश्रमानाशकालविशेषनाशयोरापे तन्नाशकत्वलाभात् । नचेश्वरीयापेक्षाबुद्धेः द्वित्वायुत्पादकत्वे घटादावपि तादृशापेक्षाबुद्धिवशात् द्विवाद्युत्पत्त्यापत्तिारेति वाच्यम् । इष्टापत्तराश्रयना- दिनकरीयम् ननु द्वित्वप्रत्यक्षनिष्ठं लौकिकवियितया द्वित्वत्वमेव कार्यतावच्छेदकमिति न गौरवं नचान्तरेणाप्यपे - क्षाबुद्धि द्वित्वप्रन्यक्षापत्तिरेतावताप्यवारितेवेति वाच्यं द्वित्वत्वाविषयकद्वित्व प्रत्यक्षस्यालीकत या व्यापकी- भूतद्वित्वत्वावच्छिन्नजनकसामग्रीविरहादेव तद्वारणादिति चेन्न उत्पादकसामग्रया व्यञ्जकत्वाङ्गीकारे घटायुत्पादक सामग्रथा अपि घटादिव्यञ्जकत्वापत्त्या सत्कार्यवादापत्तेरिति । नन्वपेक्षाबुद्धद्वित्वाद्युत्पादकत्वं न सम्भवति ध्यणुकस्यास्मदीय प्रत्यक्षागोचरतया तत्रापेक्षाबुद्धयसम्भवेन तत्र त्रित्वानुत्पत्त्यापत्तेः नचेष्टाप. तिः भावकार्यस्यासमवानि कारणजन्यत्वनिरामेन घणुरुगतत्रित्वं विना व्यणुकपरिमाणानुत्पत्तेः परिमाणस्य खसमानजातीयोस्कृष्टपरिमाणजनकत्वनियमेन व्यणुकपरियाणस्य तत्रासमवायिकारणत्वासम्भवादत आह ॥ अतीन्द्रिये झणुकादाविति ॥ आदिना परमाणुपारग्रहः । सर्गादौ योगिनामभावादाह ॥ ईश्वरीयेति ॥ नचेश्वरीयापेक्षाबुद्धेर्द्धित्वोत्पादकत्वे तड्डित्वस्य नित्यत्वप्रसङ्गः ईश्वरीयापेक्षावुद्धनित्यत्वेन तन्नाशनायित्वस्य तादृशद्वित्वे वक्तुमशक्यत्वादिति वाच्यं तद्दिश्वस्येश्वरीयापेक्षाबुद्धिसहकारिविशेषस्य क्षणविशेषस्य नाशादेव नाशोपपत्तेः क्षणविशेषस्येवरीयापेक्षावुद्धि सहकारित्वानकी कारे सर्गाद्यकालीनपरमाणु- द्वित्वोत्पत्तेः पूर्वं तद्धित्वोत्पाद पत्तेः अपेक्षावुद्धिनाशाच्चेति मूलस्याश्रय नाशोपलक्षकत्वदीश्वरीयापेक्षाबु- द्धिसहकारिविशेषक्षणविशेषनायोपलक्षकत्व स्वीकाराच्च ने तद्विरोधः एतेन घटाद्युत्पत्तिद्वितीयक्षणे भगवद पेक्षाबुद्धया तत्र द्वित्वादिकं जन्यत इति परास्तम् । तदानी सहकारिक्षणविशेषस्याभावेन भगवदपंक्षाबुद्धया द्वित्वादेरजननात्तदानी तत्र द्वित्वोत्पादे मानाभावाच्च एतदस्वरसादाह ॥ ब्रह्माण्डान्तरेति ॥ १०४ ॥