पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्डः नाव्याप्यवृत्ति । किंतु नानाजातीयरसवदद्वयवैरारब्धेऽवयविनि रसाभावेऽपि न क्षतिः तत्र रसनयावयवरस एवं गृह्यते रसनेन्द्रियादीनां द्रव्यग्रहे सामयाभावात् अवयविनो नीर- सत्वेऽपि क्षतेरभावात् । नव्यास्तु तनाव्याप्यवृत्त्येव नानारूपं नीलादेः पीतादिप्रतिबन्धकत्व- कल्पने गौरवात् । अत एव लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः । श्वेतः खुरवि- षाणाभ्यां स नीलो वृष उच्यत इत्यादिशास्त्रमप्युपपद्यते । नच व्याप्याव्याप्यवृत्तिजातीययो. द्वयोर्विरोधः मानाभावात् । नच लाघवादेकं रूपं अनुभवविरोधात् । अन्यथा घटादेरपि लाघ- वादैक्यं स्यात् । एतेन स्पर्शादिकमपि व्याख्यातमिति वदन्ति ॥१०॥ प्रभा. विषयत्व संभवेनातिरिक्तचित्रस्पों नाङ्गीकर्तव्य इति भावः ॥ रसादिकमपीति ॥ प्राचीनमत इत्यादिः॥ आदिना गन्धपारग्रहः । अपिना स्पर्शम्समुहीयते । तथा च यथा स्पर्शी न दैशिकाव्याध्यवृत्तिः तथा रसो गन्धश्च न दैशिकाव्याप्य वृत्तिरिति भावः । ननु ताहि मधुग़ादिनानारसवदवयवारब्धावयविनों नीरसत्वापत्तिरित्य वेष्टाप- त्तिमाह : किंस्विति ।। नक्षतिरिति । पृथिन्यादरस्पर्शत्व यो दोपः सः अवविविशेषस्य नीरसत्वस्वीकारे नास्तीत्यर्थः । दोषाभावमुपपादयति । तत्रेति । नानारसव दवयवारब्धनीरसावयविनीत्यर्थः ॥ रसनये- ति ॥ अवयवरस एव रासननिरूपितलौकिकविषयताबानित्यर्थः । तथाचावयवानामपि रखनेन्द्रियसंयुक्तत्वेन तत्समवायरूपसन्निकर्षस्यावयवरसे सत्त्वादिति भावः ॥ रसनेन्द्रियादीनामिति ॥ आदिना घ्राणश्रोत्र- योः परिग्रहः ॥ द्रव्यग्रह इति ॥ द्रव्यवृत्तिलौकिकविषयतासंबन्धन प्रत्यक्ष इत्यर्थः ॥ सामर्थ्याभावा- दिति ॥ कारणत्वाभावादित्यर्थः । द्रव्यनिष्टलौकिकविषयताहालिरासनादर प्रसिद्धत्वादिति भावः॥ अवय - विन इति । नानारसवदवयवारब्धाक्यविन इत्यर्थः । नीरसत्वेऽपीति ॥ रसवद्भिन्नत्वेऽपीत्यर्थः । क्षतेरभावादिति ॥ द्रव्य रासनानुपपत्तिरूप बाधकाभावादित्यर्थः । इदमुपलक्षणम् । सुरभ्य सुरभ्यषयवार - ब्धावयबिनो निर्गन्धत्वेऽपि न क्षतिः । प्राणेन्द्रियेणावयवगन्धस्यैव प्रत्यक्षस्वीकारात् द्रव्यस्य प्राणजप्रत्य- क्षविषयत्वाप्रसिद्धिश्चेत्यपि बोध्यम् । अत्र नानारसतत्यणुकत्र यारब्धचतुरणुके प्राचीनमते परस्परविरोधेन रसानुत्पत्त्या तत्र रसत्य रासनानुपपत्तिः रूपं विहायान्शेषो बसरेणुसमवेतानां गुणानां प्रत्यक्षायोग्यतया वस- रेणुरसं विषयी कृत्य चतुर णुकादिविशेष्यकरासनासंभवात् तम्मात्तत्र रसप्रत्यक्षानुरोधेन चित्ररसोऽपि अवश्यम- जीकार्य इत्यर्थः । एवं नानागन्धवस्त्रसरेणुनयारब्धचतुरणुकादौ तन्मते परस्परविरोधेन गन्धानु पत्त्या तत्र गन्धघ्राण जानुपपत्तिः व्यणुकगन्धस्यायोग्यत्वात् तद्न्धं विषयी कृत्य चतुरणुकादिविशेष्यकतद्वन्धप्रकार- कघ्राणजप्रत्यक्षासंभवातू । तस्मात् चित्ररूपस्पर्शवत् चित्ररसगन्धावपि अवश्यमढीकायौ तावेव चित्रमिति प्र-- तीतिविषयाविति प्रतिभाति । नवीनमते नानारसबदद्वय वारधावयविन्यच्याप्य वृत्तिनानारसोत्पत्तौ नानागन्ध. वदवयवारब्धद्रव्ये अव्याप्यवृत्तिनानागन्धोत्पत्ती चोक्तरीत्या बाधकामावेन तादृशावयविनि नानारसगन्धा. नामेच रासनादिप्रत्यक्षविषयत्वं चित्रो रस इत्यादिप्रतीतिविषयावं च स्वीक्रियत इति चित्ररसादिकमप्रा. माणिकमेवेति ॥ १० ॥ दिनकरीयम् , मारब्धे घटादौ स्पशानीकारे घटस्य स्पार्शनानापत्तिरित्यादिरीत्या चित्रस्पर्शाऽप्यावश्यक इति भावः ॥ अवयचिनो नीरसत्वेऽपि क्षतेरभावादिति ॥ नच चित्रो रस इति प्रतीतिविषयतयातिरिक्तचि- त्रसिद्धिरिति वाच्यं तादृशप्रतीतेरवयवगतनानार सैरुपपत्तेरातिरिक्ताचलरसतत्प्रागभावध्वंसादिकल्पने गौरवा- त् । न चैवं घणुकरसत्यायोग्यतया पधुरादिरसन्नतीतिनियामकत्वासम्भवेनास्तु त्र्यणुके मधुरादिरसः चतुरणु- काद्यन्त्यावयविपर्यन्तं मधुरादिरसवत्चे मानाभावः त्र्यणुकगतमधुररसेनैव मधुरादिप्रत्ययोपपत्तेरिति वाच्यं समवायेन मधुररसं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन मधुररसत्वेन हेतुतायाव्यणुकगतमधुररसान्यथानुप. पश्या कृप्ततया तादृशकारण बलाचतुरणुकादौ मधुरादिरसोत्पत्तेदुवारत्वात् ॥ १०० ॥