पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६२ कारिकावली [गुणखण्ड: साधर्म्य घटादावतिव्याप्तेः संयोगजमयोगेऽव्याप्तेश्च तथापि कर्मजन्यवृत्तिगुणत्वव्याप्यजा- तिमत्त्वं बोध्यम्। एवमन्यत्रापि कचिदूह्यम् ॥ ९५ ॥ ९६ ।। प्रभा. हुः । तदसत् स्वाश्रयसमवायिसमवेतगुणाजन्यत्वं न तादृशगुणनिष्ठसंबन्धसामान्यावच्छिन्न कारणतानिरूपित- कार्यत्वरूपं जन्यमानेऽतिव्याप्तः । किंतु समवायटित सामानाधिकरण्यसंवन्धावच्छिन्नकारणतानिरूपितका- यत्व रूप मे व तत् । एवंच तादृशकारणतायां निरुक्त गुणनिष्ठत्वमपि न निवेशनीयं प्रयोजनाभावात् । नि- रुक संवन्धावच्छिन्नकारणता कारणगुणनिष्ठ पत्ये तादृश कारणताघटितलक्षणलाभायैव मूलकृता कारणगुः णोद्भवा इत्यु 'कम् । एवंच हस्तपुस्तकसंयोगादिजन्य कायपुस्तकसंयोगादौ निरुक्तलक्षणाभावेनातिव्याप्त्यप्रसके- राद्यदूषणमयुक्तम् । अवयवावयविनोरे कत्वाभ्यां जनिते अवयवावयविद्वित्वादावपि समवाय घटितसामानाधिक रण्यसंबन्धावच्छिन्नकारण नाघटितलक्षणाभावादेवातिव्याप्त्यप्रसक्तेः द्वितीयदूषणमप्ययुक्तम् । एवं तादृशका. यतासमानाधिकरणदेशिकविशेषणतासमवायोभय घटितसामानाधिकरण्यसंवन्धेन पाकजन्यतावच्छेद कवैजा त्याभावविशिष्टभावनाव्यक्त्यवृत्तिजातिमत्त्वस्य लक्षणत्वस्वीकारेणैव सकलदोषवारणसंभवे नित्यरूपादावति. व्याप्तिवारणाय स्वाश्रय समवायिमानसमवेतस्वसजातीयगुणजन्यवृत्तिजातिमत्त्वरूप लक्षणकरणं ताशसंख्या. स्वादिजातिमादाय द्वित्वद्विष्यकत्वादातिव्याप्तिवारणाय जातौ संख्यात्वपृथक्त्वातिरिक्तत्वविशेषणदानं ताशरूपत्वादिजातिमादाय पाकजरूपादारतिव्याप्तिवारणाय विशेषणविशेष्यभावे विनिगमनाविरहप्रयुक्तल. क्षणद्वयसम्पादकापाक जत्वविशेषण दानं च विश्वनाथपञ्चाननसिद्धान्तापरिज्ञानपूर्वकमेव । एवंस्थिते सर्व चतुर- श्रमिति तदुक्ती मूलं चिन्त्यमिति दिक् । केचित्तु अब पाकजरूपरसगन्धात्पर्शपाकजद्रवत्वद्वित्वद्विपृथक्त्वादि. संयोगविभागपरत्वापरत्वानां न कारण गुणपूर्वकत्वं न वा अकारणगुणपूर्वकत्वं साधर्म्यमिति ज्ञेयमित्याहुः तद. सत् उक्तगुणानां अपाकजास्तु स्पर्शान्ता इत्यादिकारिकाप्रतिपाद्यतावद्गुणान्यतमत्वरूपलक्ष्यतावच्छेदकाना- कन्तत्वेन निरुक्त कारणगुणपूर्वकत्वरूपलक्षणानानयत्वेन चैवमुक्त गुणानां विभूनां तु ये स्युवैशेषिका गुणा इति कारिकाप्रतिपाद्यतावद्गुणान्यतमत्व रूपलक्ष्यतावच्छेदकानाक्रान्तत्वेन निरुक्ताकारणगुणपूर्वकत्वरूपलक्षणानाभ- यत्वेन च यदुक्तं यस्य साधर्म्यमिति न्यायेन निरुक्त कारणगुणपूर्वकत्वाकारणगुणपूर्वकत्वयोः तादृशगुणवैधर्म्यस्य सिद्धत्वात् पुनः अत्रेत्यादिध्येयमित्यन्तेन तयोस्तावद्गणसाधम्र्याभावप्रतिपादनात्यासजतत्वात् । अन्यथा त- योनित्यसाधाभावस्यापि प्रतिपादनापत्तेः । संयोगश्च विभागश्च वेगश्चैते तु कर्मजा इति मूलेन तावदन्य. तमत्वावच्छिन्नस्य कर्मजत्वं लक्षणामिति लभ्यते । तादृशलक्षणस्य यथाश्रुले वचिद्देोषमाशङ्कय निराकरोति ।। मुक्तावळ्यां कर्मजन्यत्वं यद्यपीति ॥ न साधर्म्यमिति ॥ न लक्षणमित्यर्थः । सन्न हेतुमाह ।। घटादाविति ।। अतिव्याप्तरिति ॥ कार्यमा प्रति क्रियाया हेतुत्वादिति भावः । ननु यथाश्रुतकर्मः जत्वं न लक्षणं किंतु समवायसंबन्मावच्छिन्न क्रियानिष्टकारणतानिरूपितसमवायसंबन्धावच्छिन्नकार्यत्वरूप तन अवयवकियाजन्यावयविक्रियायामतिव्याप्तिवारणाय कारणतायां समवायसंबन्धावच्छिन्नत्वनिवेशः । चक्रनम्यादिजन्य घटादामतिव्याप्तिवारणाय कार्यतायां समवाय संवन्धावच्छिन्नत्वनिवेशः । एवंच न पूर्वोक्का- तिव्याप्तिरत आह ॥ संयोगजसंयोग इति ॥ तादृशसंयोगादावित्यर्थः । आदिना विभागजविभागवे. गजवेगयोः परिग्रहः ॥ कर्मजन्यवृत्तीति । तादृशकार्यतासमानाधिकरणेत्यर्थः ॥ सत्तागुणत्वमादायाशिव्या. तिवारणाय गुणत्वव्याप्येति । तत्र गुणत्वव्याप्यस्य न तत्त्वेन निवेशः तादृशसंस्कारत्वजातिमादाय भावना. स्थितस्थापकयोः अतिव्याप्तगौरवाच किंतु भावनाव्यक्तयत्तित्वेन । तथाच तादृशकार्यतासमानाधिकरणमा- दिनकरीयम् . अत्र पाकजरूपरसगन्धस्पर्शपाकजद्रवत्वद्वित्वादिद्विपृथक्त्वादिसंयोगविभागपरत्वापरत्वानां न कारणगुणपूर्वकत्वं नवा अकारणगुणपूर्वकत्वं साधयमिति ध्येयम् ॥ एषमन्यत्रापीति |॥ अथ प्रादेशिक इत्यादिमूलेन संयोगादिद्वयविभुविशेषगुणानामव्याप्यवृत्तित्वं साधयं प्रदर्शनीयं तत्रापि यथाश्रुते कर्मादावतिव्याप्तेरीश्व- रज्ञानादावव्याप्तश्चाव्याप्ययीत्तवृत्तिगणत्व व्याप्यजातिमत्वं बोध्यमित्यर्थः ॥ ९५ ॥ ९६ ॥ -