पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली प्रभा-दिनकरीयसमन्विता । अथ द्रव्याश्रिता ज्ञेया निर्गुणा निष्क्रिया गुणाः । रूपं रसः स्पर्शगन्धौ परत्वमपरत्वकम् ॥ ८६ ॥ द्रवत्वस्नेहवेगाश्च मता मूर्तगुणा अमी । धर्माधौं भावना च शब्दो बुद्धयादयोऽपि च ॥ ८७ ।। एतेऽमूर्तगुणाः सर्वे विद्वद्भिः परिकीर्तिताः । सङ्खचादयो विभागान्ता उभयेपां गुणा मताः ॥ ८८ ॥ द्रव्यं निरूप्य गुणान निरूपयति ॥ अथेत्यादिना ।। गुणत्वजातौ किं मानमिति चेदिदं द्रव्यकर्मभिन्ने सामान्यवति या कारणता सा किद्धिविच्छेद्या निरवच्छेद्य कारणताया प्रभा. अथ देव्याधिता इति मूलस्थायशब्दस्य केवल मङ्गलार्थको द्रव्यगुणयोस्सत्य प्रदर्शनेन न्यूनतापत्तिरत आ- नन्तर्यार्थत्वमपि वाच्यम् । एवंच विभागवाक्यात् द्रव्यस्थैव प्रथममुपस्थितत्वेन तत्रैवादौ जिज्ञासा जायते तन्नि रूपणेन तन्निवृताववश्यवक्तव्यत्वरूपावसरसङ्गत्या निरूप्यन्त इति क्रियाध्याहारेण गुणा निरूप्यन्त इति वाक्या. थों लभ्यते । अतम्सनातिलाभायाधशब्दस्यानन्तयर्थिकत्वमपि सूचयति । मुक्तावळ्यां द्रव्यं निरूप्ये. ति ॥ द्रव्यनिरूपणानन्तरमित्यर्थः ॥ गुणानिरूपयतीति । गुणानां विशिष्य साधम्र्यवैधये वक्तुमादौ गुणसामान्यलक्षणमाहेत्यर्थः । । अत्र गुणत्व जातिमत्त्वं गुणसामान्यलक्षणं बोध्यम् । तत्र प्रमाणं पृच्छति ॥ गुणत्वजाताविति ॥ इदमिति ॥ अनुमानमित्यर्थः । यद्यपि गुणत्वजातौ प्रत्यक्षमेव प्रमाणमिति शक्यते वक्तुं तथापि पामराणां रूपादिषु प्रत्यक्षतो गुणत्वाग्रहा पामराणामपि चतुर्विशत्यां गुणेषु गुणस्वजातिसिद्धयर्थम-- नुमानप्रमाणप्रदर्शनामति हृदयम् । गुणत्वजातिसिद्धेः प्राक् गुणनिष्टकारणतात्वेन पक्षत्वासंभवादाह ॥ द्रव्यक- मभिन्न इति ॥ द्रव्यसामान्यभेदकर्म सामान्यभेदोभयविशिष्ट इत्यर्थः सामान्य समवायाभावानां विषयतया स्व. प्रत्यक्षहेतुतायास्सत्त्वात्ताइश कारणताव्यावर्तनाय सामान्यवतीत्युक्तम् । एवंच तादृशभेदद्वयविशिष्टसामान्यकनिष्ठ कारणतास्वेन पक्षत्वं लभ्यते । ननु रूपादिशब्दान्तगुण साधारणकारणताया अप्रसिद्धत्वात् कथं निरुक्तरूपेण पक्ष- स्वामति चेदन प्रायः रूपादिषु सर्वेवेककारणताया अप्रसिद्धत्वेऽपि प्रत्ये के प्रसिद्धाः याः कारणताः तासां निरु- क्तरूपेण तावदन्यतमत्वेन वा पक्षत्वसंभवान्नोक्तदोष इत्याहुः । तन तथा सति पृथिव्याद्यात्मान्तवृत्तिप्रत्येककारण. ता: मनोभिन्नवृत्तित्वेन तावदन्यतमत्वेन वा पक्षीकृत्य कारणतात्वहेतुना किंचिद्धर्मावच्छिन्नत्वसाधनसंभवेन पृथि। व्याद्यष्टद्रव्येष्वन्यूनानतिरिक्त वृत्तिजातिस्वीकारापते: नचेष्टापत्तिःउक्तरीत्या अप्रामाणिकानेकजातिकल्पनापत्तेः । अस्मद्गुरुचरणास्तु वाच्यतासंबन्धेन व्यवहारं प्रत्यन्वयव्यतिरेकाभ्यां व्यवहर्तव्यस्य हेतुतया वाच्यतासंबन्धा. वच्छिन्ना या गुणइत्याकारकशब्दनिष्ठा कार्यता तनिरूपित तादात्म्यसंबन्धावच्छिन्न कारणताया एव रूपादिशब्दा. न्तवृत्तेः प्रसिद्धत्वान्न पक्षाप्रसिद्धिः । अथवा स्वानुकूलकृतिमत्त्वसंबन्धेन व्यवहारं प्रति समवायसंबन्धेन व्यब. हर्तव्यज्ञानस्य हेतुतया गुणइत्याकारकशब्दनिष्ठा या तादृशसंबन्धावच्छिन्न कार्यता तन्निरूपितसमवायसंबन्धा. वच्छिन्नज्ञाननिष्ठकारणतानिरूपितविषयतासंबन्धावान्दछन्नावच्छेदकताया एव रूपादिशब्दान्तवृत्तेः प्रसिद्धत्वा- तादृशावच्छेदकताया एव पक्षवसंभवान्मुक्तावळीस्थप्रतिज्ञावाक्यघटककारणतापदस्य कारणतावच्छेदकसा. धारणप्रयोजकत्वपरतया तादृशावच्छेदकताया एव कारणत्वशब्दार्थत्वान्न पक्षाप्रसिद्धिरिति व्याचक्रुः । आ- दिनकरीयम् . नामेव तद्धेतुत्वमुचितमिति वाच्यं तस्य भौतिकत्वे पृथिवीत्वं जलवादिकं वेत्यत्र विनिगमकाभावादुभयक- रुपने चजातिसाङ्कयं तदेतदभिप्रेयोक्तम् ॥ सलेप इति ॥ इति द्रव्यपदार्थव्याख्यानम् ॥ ८५॥ अवसरसङ्गतिमभिप्रेत्याह ॥ द्रव्यं निरूप्यति ॥ तस्मिन्निरूपिते प्रतिबन्धकीभूतजिज्ञासानिवृत्तेरिति भावः । इति चेदिदमिति पाठः । ननु रूपत्वस्य सत्तामा वा गुणनिष्टकारणतावच्छेदकत्वं स्यादित्याशङ्कया--